SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे। ___ स्पष्टार्थम् । उपपत्तिश्च — स्थित्यर्धनाडीगुणिता स्वभुक्ति ' रित्यादिना ' एवं विमर्धफलोनयुक्ते'त्यादिना च भास्करविधिना स्फुटा ॥७॥ तिथ्यन्तमूनमधिकं स्थितिखण्डकाभ्यां प्राग्रासमोक्षसमयं क्रमशो वदन्ति ॥ स्थित्यधयोरिह युतिं खलु पर्वकालं मर्धिसंयुतिमदर्शनकालमिन्दोः ॥८॥ स्पष्टार्थम् । अत्रोपपत्तिः । ' मध्यग्रहः पर्वविरामकाले' इत्यादिना भास्करोक्तेन स्फुटैव ॥ ८॥ अभीष्टहीनस्थितिखण्डनिघ्नं गत्यन्तरं षष्टि-६०हृतं भुजः स्यात् । तात्कालिकेन्दोरिषुरेव कोटिस्तद्वर्गयोगात् पदमिष्टकर्णः ॥ ६॥ अत्रोपपत्तिः । ' वीष्टेन निघ्नाः स्थितिखण्डकेने'त्यादिना भास्करोक्तेन तथा — कोटिश्च तत्कालशरोऽथ कोटीदोर्वर्गयोगस्य पदं श्रुतिः स्यादिति भास्करोक्तेनैवेष्टकर्णानयनवासना सुगमैव ॥ ९॥ गत्यन्तरे मर्ददलाहते च प्राग्वद्विधया भुजकोटिकर्णाः । पिधानसन्दर्शनकालजाः स्यु सो विकर्णस्तनुयोगखण्डः ॥१०॥ गत्यन्तरे मर्ददलाहते प्राग्वत् षष्टिहृते भुजः स्यात् । तत्कालशरश्च कोटिस्तर्गयोगपदं कर्ण इति प्राग्वद्भुनकोटिकर्णाः साध्याः । पिधानसन्दर्शनकालनाः संमीलनोन्मीलनकालभवाः । तनुयोगखण्डो मानैक्यार्धं विकर्ण इष्टकर्णरहितस्तदा ग्रास इष्टग्रासो भवतीत्यर्थः । अत्रोपपत्तिः । संमीलनोन्मीलनकाले वीष्टे स्थितिखण्डे मर्दार्ध एव । अतस्ते एव गत्यन्तरगुणे षष्टिहृते तत्कालयोर्भुजौ भवतः । कर्णोनं मानक्यामिष्टग्रासो भवतीति सर्वा वासना स्फुटैव ॥ १० ॥ अहर्दलाद्रात्रिदलावसानं यावत् कपालं कथयन्ति पूर्वम् । ततो दिनार्धान्तमपूर्वमिन्दो नोर्भवेतां ग्रहणेऽन्यथा ते ॥११॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy