SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ करणप्रकाशे। सूर्येन्दुयोगे व्यतिपातवैधृती भार्धे भचक्रे गतियोगभाजिते । न्यूनाधिके गम्यगतं दिनादि पातः स्फुटःक्रान्तिलवैः समैः स्यात् ॥१८॥ इति करणप्रकाशे तिथ्यायधिकारः ॥ २ ॥ यदा रविचन्द्रयोः सायनयोर्योगो भषटुं चक्रं वा भवति तदासन्ने व्यतिपातवैधृतौ पातौ भवत इति सर्व भास्करीयपाताधिकारतः स्फुटमिति॥१८॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरण । सद्वासनाऽकारि बहुत्र तेन विदोदितो भादिविधौ तु हेतुः ।। इति करणप्रकाशस्य सद्वासनायां तिथ्याद्यधिकारः समाप्तः ॥२॥ अथ पञ्चतारास्पष्टाधिकारः । नागेश्वरा११८दशयमा२१०गगनाष्टचन्द्राः १८० खाङ्का६० रसानलयमा २३६ मृदुतुङ्गभागाः । शैघ्या गुणा मुनिनगा-७७ स्त्रिकृता ४३ द्विदस्राः २२ षट्कुञ्जरा ८६ दिनकरा-१२ श्च कुजादिकानाम् ॥ १ ॥ शैव्या गुणाः शीघ्रान्त्यफलज्याः खार्कमितव्यासदले भौमादीनामेताः । भौ=७७ । बु=४३ । गु=२२ । शु=८६ । श=१२ । शेषं स्पष्टार्थम् । ___ अत्रोपपत्तिः । मन्दोच्चानामत्यल्पगतित्वात् स्थिरांशा आचार्येण पठिता यथा लल्लेन च स्वतन्त्रे “वस्वीशा दशबाहवोऽम्बरधृतिः खाङ्का रसत्र्यश्विनो मन्दांशा” इति पठिताः । यद्यपि लल्लमतेन युग्मोजपदीयशीघ्रपरिधिभेदेन भिन्ना भिन्नाः शीघ्रफलभागास्तथाप्यत्राचार्येण स्थूलतया स्थिरान् प्रकल्प्य खार्कव्यासदले पूर्वोक्ता भौमादीनां शीघ्रान्त्यफलज्याः पठिताः । लल्लमतेन युग्मान्ते शैव्या गुणाः भौ=५३ । बु=३१ । गु= १६ । शु=५९ । श=९ । ओनान्ते भौ=५१ । बु=२९ । गु=१५ । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy