________________
२१
स्पष्टाधिकारः । अत्रोपपत्तिः । यदि चक्रकलाभिः सप्तविंशतिर्भानि तदा ग्रहकलाभिः किम् । लब्धानि गतभानि = २७ = प्रकाशेषं वर्तमानभस्य गतकलास्ताः खखगजेभ्यः शुद्धा एष्यकलाः । ततोऽनुपातो यदि ग्रहमुक्त्या एक दिनं तदा गतैष्यकलाभिः किम् । एवं लब्धानि गतैष्यदिनानि । अथार्कशशियोगरूपग्रहान्नक्षत्रवत् योगः साध्य इति । तत्र गतैष्यकलातोऽर्कशशिगतियोगतो दिनानि पूर्ववदनुपातेन साध्यानीति सर्व सुगममिति ॥१५॥ व्यर्केन्दुलिप्ताः खरसाग्नि३६०भक्ताः फलं विरूपं नग-७भक्तशेषम् । प्राहुर्मुनीन्द्राः करणं बवाद्यं तिथेरिवात्रापि भवन्ति नाड्यः ॥१६॥ स्पष्टार्थम् ।
अत्रोपपत्तिः । एकस्यां तिथौ करणद्वयं भवति । कृष्णपक्षभूतस्योत्तरदलाच्चत्वारि स्थिरकरणानि भवन्ति । अतः पूर्वार्ध प्रतिपदः शुक्लपक्षे चैकं स्थिरकरणम् । तदुत्तरदलतः सप्तचलकरणनां प्रवृत्तिः । तिथिभोगकलाः१२४६०=७२० । एतदर्ध करणभोगकलाः ३६० । अत एतत्कलाभिरेकं करणं तदा व्यर्केन्दुलिप्ताभिः किम् । लब्धगतकरणेभ्यः स्थिरकरणसङ्ख्यां रूपमितां विशोध्य चलकरणसङ्ख्याभिः सप्तमिताभिविरूपं फलं विभज्य शेषं बवादितो गतकरणं ज्ञेयम् । रविचन्द्रगत्यन्तरवशतोऽत्रापि गतेप्यनाड्यो भवन्तीति सर्व निरवद्यम् ॥१६॥ नीहारांशी परिलघुतनौ या तिथिभूतसंज्ञा
नूनं तस्यां भवति शकुनि म भागे द्वितीये। ये तिथ्यधैं तदनु भवतस्ते चतुष्पादनागे
किंस्तुघ्नाख्यं प्रतिपदि दले प्राचि सन्तो वदन्ति ॥१७॥ नाहारांशौ चन्द्रे परिलघुतनौ परिक्षाणशरीरे कृष्णपक्ष इत्यर्थः । शेषं स्पष्टार्थम् । शकुनिः । चतुष्पादः । नागः । किंस्तुघ्नमिति चत्वारि स्थिराणि करणानि सन्तीति ॥१७॥
Aho! Shrutgyanam