________________
करण
स्पष्टाथम् ।
'चरघटीसहिता रहिताः क्रमात् तिथिमिता घटिकाः खलु गोलयोरि'त्यादिभास्करविधिना स्फुटैव वासना ॥११॥ तुलादिमेषादिभषट्कसंस्थे क्रमाद्ग्रहे दक्षिणसौम्यगोलौ । कादिषवस्थितिभाजि याम्यं सौम्यायनं स्यान्मकारादिषट्वे ॥१२॥ स्पष्टार्थम् ॥१२॥ भुक्तिश्चरार्धेन हता विभक्ता खखाङ्गरामैः ३६०० कलिकादिलब्धम्। सूर्येऽस्तगे खं खचरे त्वजादावृणं तुलादावुदितेऽन्यथा स्यात् ॥१३॥ स्पष्टार्थम् । ___यदि षट्त्रिंशच्छतपलैर्ग्रहगतिस्तदा चरपलैः किम् । लब्धाश्चरसम्बन्धिकलाः । 'आदौ स्वदेशेऽथ निरक्षदेशे सूर्योदयो व्यस्तमतोऽस्तकाल' इत्यादिभास्करविधिना धनोपपत्तिः स्फुटा ॥१३॥ अर्कोनशीतांशुकला विभक्ताः खदस्रशैलै-७२० स्तिथयो गताः स्युः। फलं गतैष्ये गगनाङ्ग-६० निघ्ने गत्यन्तरेणापहृते च नाड्यः ॥१४॥ स्पष्टार्थम् ।
द्वादशभिरंशैर्वा खकरनगकलाभिः सूर्यचन्द्रविवरकलाभिरेका तिथिरिति प्रकटैव वासना । गत्यन्तरानुपातेन गतेप्यघटीसाधनं चातिसुगमम् ॥१४॥ कला ग्रहस्याम्बरपूर्णनागै-८०० विभाजिता भानि हृते गतैष्ये । भुक्त्या दिनान्यर्कशशाङ्कयोगे योगस्तथान्ये गतियोगभक्ते ॥१५॥
ग्रहस्य कलाः खखगजैर्भक्ता लब्धानि भानि गतानि नक्षत्राणि स्युः । शेषकला गतकलास्ता हरतः शुद्धा एष्यकलाः । ते गतैष्ये कले भुक्त्या ग्रहस्य गत्या हृते दिनानि गतेप्यानि भवन्ति । एवमर्कशशाङ्कयोगकलाः खखगजहृता लब्धो योगो गतो भवति । शेषं गतकलास्ता हरात् पतिता एष्यकलाः । एवं ये अन्ये गतेप्यकले ते रविचन्द्रगतियोगहृते गतैष्यदिनानि भवन्तीत्यर्थः ।
Aho! Shrutgyanam