________________
स्पष्टाधिकारः। त्रिष्ठाऽक्षभा सगुणिता खचन्द्र-१०
र्नागै ८ स्त्रिभिः सत्रिलवैः ३।२० क्रमेण । अभीष्टदेशे क्रियपूर्वकाणां
विनाडिकाः स्युश्चरखण्डकानाम् ॥८॥ स्पष्टार्थम् । 'दिङ्नागसत्र्यंशगुणैर्विनिनी'त्यादिभास्करविधिना सुगमा वासनास्येति।।८॥ व्योमाद्रिवाणैः ५७० सहितोऽब्दसङ्घो
भवन्ति षष्टया १० विहृतोऽयनांशाः । देया बुधैर्लग्नचरापमानां
सिद्ध्यै ग्रहे दृग्बलनादिकेषु ॥६॥ स्पष्टार्थम् ।
अत्रोपपत्तिः । ४ ४ ४ शके ह्याचार्यमतेनायनांशाभावः प्रत्यब्दमेका कला गतिश्च।तत अयनांशकला:=इश-४४४ =इश-१०१४+१०१४ -४ ४ ४= (इश- १०१४)+(१०१४ - ४४४ )-ग्रन्थारम्भतोऽब्दगणः +९७० । एताः षष्टिभक्ता जाता अयनभागाः = अब्दे ग+५७० ।
अत उपपन्नम् । इदमेवानयन ग्रहलाघवे गणेशदैवज्ञेनापि निबद्धम् ॥९॥ ___भुजीकृतस्पष्टसहस्ररश्मेर्भसंख्यया यञ्चरखण्डकैक्यम् । तद्भोग्यखण्डांशवधात् खरामै-३० राप्तेन युक्तं तु चरार्धकं स्यात् ॥१०॥ स्पष्टार्थम् ।
उपपत्तिश्च । परमभुजराशित्रयमध्ये त्रीणि चरखण्डानि । अतो भुजराशिसंख्यासमं चराधैक्यं कृतम् । त्रिंशल्लवैरेप्यखण्डं तदा भुजशेषांशैः किम् । लब्धं शेषसम्बन्धि फलं पूर्वागतचरखण्डयोगे युक्तं जातं पलात्मकं चरमित्युपपन्नम् ॥१०॥ द्विष्ठा युतोनाः शरशीतभास-१५ श्वरार्धनाडीभिरिह क्रमेण । द्विघ्नाः प्रमाणं धुनिशोर्भवेत् तत् सौम्येऽन्यथा दक्षिणगोलगेऽर्के ॥११॥
६०
Aho ! Shrutgyanam