________________
स्पष्टधिकारः । शु=५७ । श= ॥ एते सार्धचतुर्भिर्गुणिता जाताः शीघ्रपरिधिभागाः ते खात्रिज्याहता भांशहता युग्मान्ते शीघ्रान्त्यफलज्याः । भौ=७९३ । बु=४६३ । गु=२४ । शु=८८३ । श=१३३ । ओनान्ते भौ=७६३ । बु=४३३ । गु=२२३ । शु%८५३ । श%१२ ॥ स्वल्पान्तरादोजान्तीयशीघ्रान्त्यफलज्यासमा आचार्योक्ताः सन्तीति सुधीभिर्येयम् ॥१॥ शीघ्रोच्चं ग्रहवर्जितं चलभवं केन्द्रं भुजज्या ततः
प्राग्वद्वाहुलवोनिताम्बरनव-६०ज्या कोटिजीवा भवेत् । ऐक्यं यञ्चलघातकोटिगुणयोः केन्द्रे मृगाद्येऽन्तरं
कादौ सति तद्भुजो थगुणयोर्वर्गक्यमूलं श्रुतिः ॥ २ ॥ चलघातश्चलगुणः खार्कत्रिज्यायां शीघ्रान्त्यफलज्या । शेपं स्पष्टार्थम् ।
अत्रोपपत्तिः । 'स्वकोटिजीवान्त्यफलज्ययोर्यो योगो मृगादावथ कर्कटादौ । केन्द्रेऽन्तरं तद्गुननीवयोर्यहरॊक्यमूलं कथितः सकर्णः ॥ इति भास्करविधिना कानयनस्य वासना स्फुटैवेति ॥ २ ॥
दोा हता चलगुणेन तु कर्णभक्ता
चापीकृताऽऽशुफलमस्य दलं लवाद्यम् । स्वर्ण ग्रहे क्रियतुलादिगते स्वकेन्द्रे
कृत्वा ततो व्यपनयेन्मृदुकेन्द्रभागान् ॥३॥ ततो मन्दोञ्चादर्धशीघ्रफलसंस्कृतमध्यग्रहं व्यपनयेत् शोधयेत् । ततो मृदुकेन्द्रभागान् विधाय बाहुगुणः कार्य इत्यग्रेसम्बन्धः। शेष स्पष्टार्थम् ।
अत्रोपपत्तिः । 'घाताद्भुजज्यान्त्यफलज्योवा कर्णोद्धृता'दित्यादिना भास्करोक्तेन स्फुटा । धनर्णवासना च गोलयुक्त्या सिद्धान्तविदां विदितैवेति । 'मध्ये शीघ्रफलस्यामिति सूर्यसिद्धान्तप्रमाणेनादौ मध्ये शीघ्रफलार्धसंस्कारः कृतः । ततः कर्मयेऽपि समानं मन्दफलं स्वल्पान्तरतोऽङ्गीकृत्य मन्दफलाघसंस्कारो न दत्त आचार्येण किन्तु मध्यमे सम्पूर्ण मन्दफलमेव दत्तमित्यग्रश्लोकेन सर्व स्फुटमिति । अयमेव विधिग्रहलाघवकारेण गणेशेनापि स्वीकृत इति ॥ ३ ॥
Aho ! Shrutgyanam