SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ५० ज्योतिषसिद्धान्तसंग्रहे यो भवन्ति तत्रिस्पृग्धनुः कुर्या द्विजोत्तम ॥ १४ ॥ प्राविम्बं यागेव स्यात् तादृक् तत्र दिने शशी । कोव्या दिक्साधनात् तिर्यक्सूत्रान्ते श्टङ्गमुन्नतम् ॥ १५ ॥ दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य चाकृतिम् । कृष्ण षड्भयुतं सूर्यं विशोध्येन्दोस्तथा सितम् ॥ १६ ॥ दद्याद्वामं भुजं तत्र पश्चिमं मण्डलं विधोः। अथ वच्मि द्विजश्रेष्ठ कालं तदुदयास्तयोः ॥ १७ ॥ लग्नान्तरासवः कार्या रवौन्डोः षड्भयुक्तयोः । चेदेकराशावुभयोः कार्या विवरलिप्तिकाः ॥ १८ ॥ ताभ्यो नाड्यो हते ताभिदुर्यगती चन्द्रसूर्ययोः । षष्टिभक्ते ६० फले ताभ्यां संयुतौ चन्द्रभास्करौ ॥ १६ ॥ पुनः प्राग्वत् तयोः कार्या विवरमाणसञ्चयाः । एवं यावत् स्थिरीभूताः कर्त्तव्या विवरासवः ॥ २० ॥ रवेरस्तमयाच्छुक्ले तैः प्राणैरस्तमेति हि । चन्द्रमाः कृष्णपक्षे तु सषड्भोऽर्को विधीयते ॥ २१ ॥ प्राग्वत् तयोश्च कर्त्तव्या: सुस्थिरा विवरासवः । सूर्यास्तादृदयं याति प्राणैस्तैः शशलाञ्छनः ॥ २२ ॥ अर्कोन्दोर्विवरप्राणैः शक्ते सूर्योदयाद्भवेत् । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy