________________
वृद्धवसिष्ठसिद्धान्तः । तरोहणे चैव कृष्णवर्ण भवेत् सदा। रहस्यमें तदाख्यातं तवाग्रे गुह्यमुत्तमम् ॥ २४ ॥ अपरीक्षितशिष्याय दातव्यं न कदाचन । इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्वप्रकाश
परिलेखाधिकारः षष्ठः ॥ ६ ।।
वसिष्ठ उवाच । अथ ताराग्रहाणां च युद्धं वक्ष्ये द्विजोत्तम । समागमं च ताटं चतुर्धा भवति ध्रुवम् ॥ १॥ अंशुमर्दीऽपसव्याख्यमुल्लेखा भेद इत्यपि । अंशाधिकं यदा खटान्तरं स्यात् स समागमः ॥ २ ॥ अंशुमर्दनकं युद्धमंशुयोगे परस्परम् । ग्रंशादूनेऽपसव्याख्यं युद्धमेकाऽत्र चेदणुः ॥ ३ ॥ उल्लेखाख्यं च तत् स्पर्शाभेदे भेदः प्रकीर्तितः । समागमश्च चन्ट्रेण प्रोच्यतेऽपि द्विजोत्तम ॥ ४ ॥ सूर्यणास्तमनं साकं सर्वेषां च नभःसदाम् । अथ तहणितं वक्ष्य यथाऽधीतं पितामहात् ॥ ५॥
प्राग्यायिना: खेचरयाईयाश्च - शीघ्रग्रही मन्दखगाधिकशेत् । गतोऽन्यथा वा भविता हि योगस्तरखटयोर्वक्रगयोस्तु वामम् ॥६॥
Aho! Shrutgyanam