________________
वृद्धसिष्ठसिद्धान्तः ।
४१ रहस्यं परमं पुण्यं गुह्यं ज्ञानमतीन्द्रियम् । समपीठेऽथ वलयं सप्तवर्गाङ्गलेन च ॥ ४ ॥ कर्कटेन च तद्वत्तं महत्संचं प्रकीर्तितम् । छाद्यच्छादकयोर्मानयोगार्धकर्कटेन च ॥ ५ ॥ तत्केन्द्रादेव वलयं द्वितीयं मध्यमाह्वयम् । ग्राधमानाङ्गलदलकर्कटेन टतीयकम् ॥ ६ ॥ वृत्तं कुर्याच्च तन्मध्ये तवृत्तं ग्राह्यमण्डलम् । तत्र पूर्वापरा रेखा कार्या याम्योत्तरा तथा ॥ ७॥ परं तु पूर्वोपरयाय॑त्ययोऽत्र दिशोर्भवेत् । प्राच्या प्रग्रहणं मोक्षः पश्चादिन्दोहे रवेः ॥ ८॥ विपर्ययाच्छशाङ्कस्य विपरीतदिशः शराः । यथादिशं हि वलनं स्साशं स्याद्धिमदीधिते ॥१॥ मौक्षिक वलनं वाम विपरीतमिदं रवेः। हत्ते महति वलनं ज्यारूपं हि यथाक्तवत् ॥ १० ॥ दत्वा तन्मध्यतो रेखा तातिमध्यमाह्वया। ग्रासमौक्षिकविक्षेपौ प्राक्पश्चाच्छशिनस्ततः ॥ ११ ॥ पश्चात् प्राक् तरणेयौ रेखातरकेन्द्रयोरपि । याह्यरत्तेऽथ तद्योगौ तत्र स्तः स्पर्शमीक्षकौ ॥ १२ ॥ अथ माध्यं हि वलनं तद्विक्षेपैकता यदि । प्राङमुखं स्वदिशोर्देयं भेदे पश्चान्मुखं तथा ॥१३॥
Aho! Shrutgyanam