________________
ज्यौतिषसिद्वान्तसंग्रहे तत्रावनतिनाशः स्यात् सा नतिर्लम्बनाद्भवेत् ॥ ४ ॥ लम्बनं हि यथार्केन्दोः पूर्वापरवशाभवेत् । तवचम्यहं महाभाग देशकालवशान्नतिः ॥ ५ ॥ पर्वान्तकाललग्नं तद्भुजजोवा परापमज्या-४०५घ्नी । लम्बज्यया विभक्ता सोदयजीवा भवेदन ॥ ६ ॥ पर्वान्तमध्यलग्नात् क्रान्तिलवांक्षशयोगविवरं वा । तहिक्साम्यासाम्ये नतांशकज्या हि मध्यज्या ॥ ७॥ मध्यच्यया विनिहतोदयजीवाप्ता त्रिभज्यया वर्गः । मध्यज्याया वर्गस्तद्युतिमूलं स दृक्षपः ॥८॥ तत्रिज्याकति-१००००० विवरा
न्मूलं शङ्कः स डग्गतिः प्रोतः । नतभुजकोटिज्ये वा
स्पष्टे हक्क्षेपटग्गतौ भवतः ॥६॥ पूर्णाभ्राभखतत्त्वा२५००००
दृग्गतिभक्ताश्च तत्फलं हारः । पर्वान्तमध्यलग्ना
योर्वियोगज्यका कार्या ॥ १० ॥ सा जीवा हरभक्ताऽन्तरलम्बनकं शशाङ्कभास्करयोः । तन्नाडिकादिकं स्यात् पूर्वापरयोश्च हकसूत्रात् ॥ ११ ॥ पूर्वापरस्थिते हीनं युक्तं च तेन पर्वान्तः । पुनरपि तत्पर्वान्ताल्लम्बन घटिका च संसाध्या ॥ १२॥
Aho! Shrutgyanam