SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ वृद्धवसिष्ठसिद्धान्तः । इष्ट ग्रासोन तन्मानयोगार्धकृतितः कृतिम् । तत्कालेंषोः पदं कोटिर्भानोः स्थित्यर्धसंगुणा ॥ ३० ॥ मध्यस्थित्यर्धसंभक्ता कोटिलिप्ताः खषड्गुणाः । गत्यन्तरहृता नाड्घो गतैष्याः स्पर्शमौक्षिकाः ॥ ३१ ॥ नतासुव्युत्क्रमज्याघ्नी पलज्या त्रिज्यया हृता । चापं नता उदग्याम्याः पूर्वापरकपालयोः ॥ ३२ ॥ ग्राह्याद्राशित्रययुतात् क्रान्त्यं संस्कृता नताः । ताभ्यो जीवा खसप्ता - ७° ता वलनांशाङ्गुलात्मिका ॥ ३३ ॥ दिनार्धनाडिकायुक्त दिनमानं च सोन्नतम् | तद्दिनार्धहृतं हारः शरादीनां भवेदिह ॥ ३४ ॥ ग्राह्याटुग्राहकतो बाणायासाद्वा रविभाजितात् । लब्धाङ्गुलानि तेषां तु ग्रहणे चन्द्रसूर्ययोः ॥ ३५ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणीते गणितस्कन्धे विश्वप्रकाशे चन्द्रग्रहणाधिकारश्च तुर्थः ॥ अथामान्ते हि चन्द्रार्कौ राश्यंशादिसमावपि । प्राक्पश्चात् समसूत्रे हि नो यातोऽतस्तु लम्बनम् ॥ १ ॥ यथा यथा खमध्यं च रविरेति तथा तथा । लम्बनस्य विरामः स्यान्मध्याङ्के लम्बनं न हि ॥ २ ॥ उदयास्तमयेऽर्केन्द्रोः पादोनांश ० । ४५ मितान्तरम् । समसूत्रे तयोरेवं समसूत्रमहर्दले ॥ ३ ॥ खदेशांक्षांशतुल्याश्चेन्मध्य लग्नापमांशकाः ५ Aho! Shrutgyanam 9
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy