________________
ज्यौतिषसिद्धान्तसंग्रह पूर्वापरालकाले षष्ट्याऽभिहतं नतप्राणाः ॥ ३३ ॥ रविनतभागाक्षलवा
न्तरसंयोगौ दिगैक्यभेदे च । क्रान्तिर्भवति हि तज्ज्या
त्रिज्यागुणिता परापमज्यकया ॥ ३४ ॥ लब्धाच्चापं भानुर्मेषादिः कर्कटादिगः षड़भात् । शोध्यस्तुलादिगश्चेत् षड्भयुतोऽर्कः स्फुटो भवति॥३५॥ मकरादिगो भचक्राच्छद्धो मध्याह्नकालिकः स्पष्टः । तस्मादसहन्मान्दं वामं वा मध्यमोऽर्कः स्यात् ॥ ३६॥ इष्टाकोग्रागुणिता लम्ब कजीवा स्वकर्णविहृताऽऽप्ता । क्रान्तिज्या स्थाच्च ततः पूर्ववदर्कः स्फुटो भवति ॥३७॥ त्रिज्यासमकर्णहृता हादशगुणिताऽक्षजीवया च गुणा । परमापमज्ययाऽऽप्ता भुजजीवा तदनुः सूर्यः ॥ ३८॥ सलिलसमीकृतभूमौ चक्रलवार्धाङ्गुलेन१८०सदृत्तम्। तत्र च ककुभः साध्या मध्ये शङ्कश्च संस्थाप्यः ॥३६॥ इष्टदिनापमजौवा खति हता लम्बजीवयाऽऽप्ताऽग्रा । उत्तरगोले भानौ पलभा शोध्या भुजो भवेद्यायः॥४॥ दक्षिणगोलगते वा पलभा योज्या भुजो भवेत् सौम्यः । तजवर्गः शोध्यः खखयुगनेवाग्नितः पदं कोटिः॥४१॥ केन्द्रात् प्रसारणीया प्राच्यां वरुण भुजस्ततो देयः । तत्स्थानदयचिहं मध्य विभाग्रे तथा चिह्नम् ॥४२॥
Aho ! Shrutgyanam