________________
वृद्धवसिष्ठसिद्धान्तः ।
२५
चरजामुभिर्युतोना त्रिज्या सौम्याप में क्रमाद्याम्ये । अन्त्या भवति नतासुव्युत्क्रमजीवाभिरुना सा ॥ २४ ॥ दिनखण्ड कर्णशु गिता छेदत्रिज्याविभाजिता तनी । लम्बज्यकाऽथ भाज्या परमज्यकथा ४०५ भवेच्छङ्कः ॥ तद्दर्गोनत्रिज्यावर्गान्मूलं विधाय दोर्ज्या स्यात् । दृक् त्रिज्य के (१)ऽर्कगुणिते शङ्कहृते भाश्रुती भवतः ॥ २६ ॥ पलकर्ण इतक्रान्तेर्जीवा शङ्कज्यया हृताऽर्काग्रा । इष्टश्र ुतिगुणिता सा मध्यमकरर्णोद्धृता खीया ॥ २७ ॥ तद्युतविवरात् पलभा याम्ये सौम्ये भुजो भवेत् सौम्यः । याम्यायाया पलभा शोध्या यामो भुजः सौम्ये ॥ २८ ॥ इष्टच्छायापलभाविवरं वाऽग्रा परापमांशेभ्यः । अभ्यधिकाः पलभागा मध्यभुजस्तत्र सौम्यः स्यात् ॥२६॥ क्रान्तिज्या वेष्टकर्णघ्नी लम्बाप्ताऽग्रा ततो भुजः । तद्वर्गं शोध्य (२) भावर्गान्मूलं कोटिच जायते ॥ ३० ॥ इष्टच्छायागुणिता त्रिज्या तत्कर्णभाजिता हग्ज्या । तत्कृतिरहित त्रिज्याकृतितो मूलं स शङ्कः स्यात् ॥ ३१ ॥ त्रिज्यागुणितः शङ्क लम्बकजीवाविभाजितश्छेदः । त्रिज्याहतो युकर्णार्धेन विभक्ती नतज्या स्यात् ॥ ३२ ॥ वान्त्या तथा विरहिता व्युत्क्रमजीवाभिरच चापं च ।
(१) अत्र सन्धि: पाणिनिविरुद्धः ।
(२) ' शोधयित्वा' इह शोध्येति पाणिनिविरुद्धः ॥
३॥
Aho! Shrutgyanam