________________
२४
ज्योतिषसिद्धान्तसंग्रहे
इष्टतिघ्नविभजीवयाऽऽप्तमग्रा भवेदङ्क लपूर्विका च ॥ १८ ॥
त्रिभजीवाकृति - १०००००० दलतो. ५० ० ० ० ० ग्रज्य वर्ग विशोध्य शुङ्ककृतिम् ।
निहृतं हृतं सदानं
मलमाकृतिभिर्हरैः करणी ॥ १८ ॥
द्वादशगुणिता पलभा
ऽग्रज्यागुणिता हरोद्धृताऽक्षफलम् । तवर्गयुक्तकरणी
मूलेऽच फलं धनीं स्यात् ॥ २० ॥
उत्तरयाम्यक्रान्त्यो
रेवं कोण स्थिते भवति शङ्कः ।
यत्रापमांशतोऽक्षो
ऽभ्यधिकस्तत्राग्निनिर्ऋतिको गतः ॥ २१ ॥
उत्तरयाम्यगतेऽर्के सदैव शङ्खस्ततो विभाकर्णः । न हि तावदुत्तरस्थे शम्भु मरुत्कोणयोर्भवति शङ्कः ॥ २२ ॥
यत्राक्षभागाः शरपञ्चतुल्या
ईशानगोऽर्कः समुदेति कर्के ।
:
मृगस्थिते वह्निविदिग्गतो भ तिथ्यंशयुग्मान्वितमेघसंख्या ॥ २३ ॥
Aho! Shrutgyanam