________________
वृद्धवसिष्ठसिद्धान्तः ।
लम्बज्यया विषुवतौ छायाकर्णोऽपि जायते ॥ १३ ॥
अपक्रमज्यागुणितोऽच कर्णो
ऽक्षभाविभक्तः फलमुन्नतज्या ।
तच्चापमत्रोन्नतभागकाः स्यः
सहस्ररश्मौ सममण्डलस्थे ॥ १४ ॥
त्रिज्याकृतेः प्रोज्झ्य तदुन्नतज्यावर्ग पदं सा भवतोह हग्ज्या । दृक्त्रिज्यकेऽर्काभिहते विभक्ते
छायाश्रुतौ चोन्नतजीवया वा ॥ १५ ॥ लम्बाजी वे विषुवत्प्रभाक
हते विभक्तेऽयमजीवया तौ ।
लब्धौ च कर्णो सममण्डलस्थे
मानौ ततो भा मुधिया विधेया ॥ १६ ॥ शङ्कुर्भवेदुन्नतशिञ्जिनी सा
खाचज्यया संगुणिता विभक्ता । क्रान्तिज्यया सा परमा भुजज्याचापं भुजा के सममण्डलस्थे ॥ १७ ॥
खक्रान्तिजीवा परमज्य कानी
लम्बज्य याऽप्ताऽग्रगुणो रवेः स्यात् ।
Aho! Shrutgyanam
२३