________________
वृद्धवसिष्टसिद्धान्तः ।
दिक् साधनमथ वच्चे ज्योतिश्चक्रं यदाश्रितं यस्मात् । तदनु च देशविभागं कालविरणं च यन्त्रणि ॥ १ ॥ समभूतले सुवृत्ते शङ्खोश्छाया विशति यत्र पूर्वाह्णे । यत्र च यात्यपराह्णे रेखा तत्रापरा पूर्वा ॥ २ ॥ पूर्वापराङ्क केन्द्रात् तिमिना रेखा यमोत्तरा मध्यात् । तिमिभिर्विदिशः साध्या याम्योदग्वा ध्रुवे वेधात् ॥ ३॥ मध्यन्दिनगे तरणौ शङ्खोश्छाया यमोत्तरा साक्षात् । तन्मत्स्यतोऽपि पूर्वापरा च दिग्वाऽय संसाध्या ॥ ४ ॥ सममण्डलोपगे वा प्रागपराभा रवौ भवति साक्षात् । तत्को गतेने कोण दिशौ स्तस्ततः प्राची ॥ ५ ॥ भुजकोटिकर्णभेदादिह गोले स्यात् सहस्रधा स्रम् | ऊह्यं तद्बुद्धिमता गणितविधानप्रधानेन ॥ ६ ॥ छायाऽसौ भुजरूपा शङ्करसौ द्वादशाङ्गलप्रमितः । कोटिखरूपकः स्याच्छङ्क विभागाश्रितः कर्णः ॥ ७ ॥
भाशङ्कमानाङ्गलवर्गयोगा
मूलं श्रुतिः स्यादविषुवद्दिनार्षे । शङ्कोः श्रुतेर्वर्गवियोगमूलं
प्रभा भवेदिष्ट दिनेष्टकाले ॥ ८ ॥
पलप्रभाशङ्कहते त्रिभज्ये
भक्तेक्षक: पललम्बजीवे ।
Aho! Shrutgyanam