________________
१०
ज्योतिषसिद्धान्तसंग्रहे
युगणाल्लवं पृथग्यम२ गुण ३घ्नम् । सैकं२ सदा ७ भक्त माससमाधीश्वरावर्कात् ॥ ५० ॥
खचराश्च मध्यभुक्तया
लङ्कायामार्धरात्रकालीनाः ।
देशान्तरेण हीना
निजदेशीया भवन्ति सहिता वा ॥ ५१ ॥
षोडशशत - १६०० योजनको
भूकर्णी दिग्नवर्गतो मूलम् ५०६० । परिधिर्निरक्ष देशे
लम्ब गुणघ्नविभज्य या हृतः स्पष्टः ॥ ५२ ॥
वृत्तद्दयाङ्किता भू
र्लङ्कायमकोटिसिङ्घरोमाख्याः ।
पुर्यश्वतख एताः
प्रागपरे व्यक्षसंज्ञ के वृत्ते ॥ ५३ ॥
वृत्ते च सौम्ययाग्ये लङ्का काञ्ची कुमध्यरेखाखये ।
सगरश्च वत्सगुल्मो
ज्जयनिकुरुक्षेत्र मेरु संस्थानाः ॥ ५४ ॥
तद्देशान्तर योजन
गुणिता गतयः खकीयपरिधिहताः ।
Aho! Shrutgyanam