________________
वृद्धवसिष्ठसिद्धान्तः ।
लब्धकलादिखमृणं
खचरे परपूर्वके च रेखातः ॥ ५५ ॥
गणितागतादनन्तर
मिन्दोरुन्मीलनं तदा प्राच्याम् ।
स्थानं स्वकीयमेव
पश्चादथ वा कुमध्यतश्चादौ ॥ ५६ ॥ हग्गणितागतनाडी
विवरेण हतं स्फुटं भुवः परिधिम् । षष्ट्या ६० विभजेल्लब्धो
योजन संघोऽथ वा निमीलनतः ॥ ५७ ॥
गुरुगतराशिसमूहात्
षष्टिहृताच्छेषकेण विजयाद्याः ।
तागा यमरगुचिता:
पञ्चविभक्ताप्रभुक्तमासादि ॥ ५८ ॥
प्रभाकरस्योद्गमनात् पुरे स्याटुवारप्रवृत्तिर्दशकन्धरस्य ।
चरार्ध देशान्तरनाडीकाभि
रूर्ध्वं तथाऽघोऽप्यपरत्र तस्मात् ॥ ५८ ॥ वारप्रवृत्तेर्घटिका दिनेशात्
कालाख्यहोरापतयः क्रमेण ।
सार्धेन नाडी द्वितयेन षष्ठः
Aho! Shrutgyanam
११