SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अथ वृद्धवसिष्ठसिद्धान्तः । श्रीगणेशाय नमः । नमस्ते चित्स्वरूपाय पराय परमात्मने । योगिध्ये वाय शान्ताय कालरूपाय विष्णवे ॥ १ ॥ नैमिष्येऽनिमिषक्षेत्रे वामदेवो द्विजोत्तमः । अभिवाद्य सुखासीनं वसिष्ठं परिष्टच्छति ॥ २ ॥ गुरो धर्मज्ञ शान्तात्मँ त्रिकालज्ञ दयानिधे । सर्वशास्त्राण्यधौतानि त्वत्प्रसादान्मया मुने ॥ ३ ॥ तानि सर्वाणि शास्त्राणि वृथारूपाणि भान्ति मे । वेदनेत्रं विना तस्माज्ज्योतिःशाखं प्रयच्छ मे ॥ ४ ॥ वसिष्ठ उवाच । साधु साधु महाभाग यन्मां त्वं परिष्टच्छसि । विस्तरेण प्रवक्ष्यामि यथाज्ञातं पितामहात् ॥ ५ ॥ ज्योतिःशास्त्रं समग्रं प्रथमपुरुषतः खर्गगर्भाद्विदित्वा पूर्वं ब्रह्मा तथोपर्यखिलमुनिगणप्रार्थनाद्यञ्चकार । तच्चेदं सुप्रसन्नं म्टदुपदनिकरैर्गुह्यमध्यात्मरूपं शश्वद्विश्वप्रकाशं ग्रहचरितविदां निर्मलं ज्ञानचक्षुः ॥६॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy