________________
पिनामहासिद्धान्तः ।
२१ हता दृष्टमाध्याह्निकार्कक्रान्त्यक्षसंयोगवियोगशेषं दक्षिसोत्तरगोलयोरनष्टं तद्राशित्रयादपास्य तज्ज्या भाग. हारः। द्वादशहताया अनष्टजीवाया लब्धं माध्यातिकी छाया। त्रिज्याघातो मध्याह्नछायाभागापहारविभक्तस्त कर्णः । विषुव त्कर्णहतां त्रिज्यां स्वेष्टच्छायाकर्णेन विभजेत् लब्धमुत्तरदक्षिणगोलयोः क्षितिज्यायुतीनं व्या. साधिताडितं स्वाहोरात्रार्धन विभजेत् लब्धचापं गोलविपर्ययाचरदलयुतीनं दिवसस्य गतं शेषं वा भवति । __ इति विष्णुधर्मोत्तरे ज्योति:शास्त्रे छायाप्रकरणम् ।
इष्ट कालस्फुटार्कराशिभुक्तालिप्तास्तदन्तराश्युदयप्रागहतागृहलिप्ताभिर्विभजेत् लब्धमर्काक्रान कालस्तदेष्ट कालप्राणेभ्योऽपास्यावशेषादभुक्तराभ्युदयप्राणा अपास्याः भोग्यकालेनानन्तरराश्य दया अपास्याः । अर्कराश्य दयो देयः । विंशदगुणितशेषादशुद्धराश्युदयाप्तभागाद्यम् । एवं राशिगतकाललग्नोदया: षडाशियुतार्काकभुक्तगताद्याः काले लग्नाच्च। लग्नातक. लाभ्यःकालयोगे तदन्तरराश्युदये युते लग्नोदयकालः।
इति लग्नप्रकरणं नामाध्यायः । भौमजोवसौरा मन्दाः। शीघ्रौ बुधसितौ बके मन्दा अन्यथा शीघ्रौ । मन्द ग्रहाः कातरगाः । कालदृश्यादवांशेन यदा तदा पूर्वार्धादयस्तस्य भावी
Aho ! Shrutgyanam