________________
२० .
ज्यौतिषसिद्धान्तसंग्रह तात्कालिकंपावन चन्ट्रात् स्फुटक्रान्तिः । प्रथमवतीयपदान्तस्थे चन्द्र चन्द्रसष्टा क्रान्तिर्यदोना भवति तदा क्रान्तिसाम्याभावः । प्रथमतीयपदस्थे चन्द्रमसि तदपक्रमसाम्ये गतैष्यः क्रान्तिसाम्यकालोऽन्वषाऽतीतः । द्वितीयचतुर्थपदस्थेऽन्यथा । विक्षेपेण स्वक्रान्तिदिगुत्पत्तौ चन्द्रापक्रममधिकोनं कल्पयेत् । क्रान्त्योयतिरन्यदिशोरेकदिशोरन्तरं व्यतीपातेऽन्यथा वैधते प्रथमाख्यः । एवमिष्टकालिकैरकंचन्द्र पातैईितीयाख्यस्ततः प्रथमहितीयकालयोयोरेष्योऽतीतो वा पातस्तयोरन्तरमन्यथा यो. गोऽयं हारः । प्रथमगुणस्येष्ट कालस्य तेन कालेनासहदहितीयं कृत्वा विशेषकर्मणा स्फटः कालः साध्यः स व्यतीपातमध्यकालः । आदित्यचन्द्रमानयोगः षष्टिगुणो भक्त्यन्तरेण हृतो लब्धा स्थितिरिति । इति विष्णुधर्मोत्तरे ज्योतिःशास्त्र तिथिनक्षत्रप्रकरणं नामाध्यायः ।
दिनगतशेषाल्पकालस्योत्तरगोले चरार्धहीनस्य दक्षिणे युतस्य जीवाऽहोरात्रव्यासाहता रिज्या हृता गोलविपर्यये त्रिज्या(१)युतोनछेदः । छेदोऽत्रलम्बकज्याहतस्त्रिज्याविभाजितः शङ्कः । शङ्कवर्ग होनस्य त्रिज्वावर्गस्य पदं दृग्ज्या हादशहता शङ्क(१) त्रिज्येत्यत्राहोरात्र व्यासान भवितव्यम् ।
Aho ! Shrutgyanam