________________
तृतीयोऽध्यायः ।
व्याधितो वाऽपि तावन्ति व्रजेत् पापानि नारद । प्राशयेनवनीतं वा नैकादश्यां शिशूनपि ॥ ७८ ॥ योगिनोऽपि महात्मानो नाथन्त्यस्या व्रते रताः । एकादश्युपवासेन म्रियते यदि मानवः ॥ ७६ ॥ क्षुधार्त्तः शिवसालोक्यं गच्छन्निष्कल्मषं मुने । विस्मृत्यैकादश मोहाद्वादशीपरतः स्थिता ॥ ८० ॥ उपोष्या दादशी तत्र यदिच्छेत् परमं पदम् । शोके वा यदि वा मोड़े वर्षे वा समुपस्थिते ॥ ८१ ॥ नूतके मृतके वाऽपि न त्याज्यं द्वादशीव्रतम् । स्रुतकान्ते हरिं विप्रान् पूजयेङ्गोजयेत् खयम् ॥ ८२ ॥ विधिनोपवसेद्दिष्णु विपाश्चान्याश्च पूजयेत् । काम्यव्रतेषु सर्वेषु सर्वत्रैवं विधिस्त्वयम् ॥ ८३ ॥ तथाऽपि गणयेत् काम्ये न तथाकृतमेव तु । असामर्थ्यशरीरश्चेत् काम्यव्रतमुपस्थितम् ॥ ८४ ॥ पुत्रेण धर्मपत्ना वा कारयेन्मुनिवल्लभ । पत्नीव्रतं पतिः कुर्यादसामर्थ्ये तयोर्मिथः ॥ ८५ ॥ अन्यथा व्रतभङ्गेन त्वौषधैश्चैव सृतकैः । यः कुर्यात् पुत्रवित्तादिकाम्य में कादशीव्रतम् ॥ ८६ ॥ आव्रतोद्यापनात् तस्य नामानि चीणि नारद । पुत्रवान् धनवान् मुक्तः पर्यायास्तेष्वनेकशः ॥ ८७ ॥ दिनक्षयेऽपि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
€ H
Aho! Shrutgyanam
४९