________________
ब्रह्मसिद्धान्तेपूज्या स्वल्पाऽपि सर्वत्र या तिथिर्वद्धिगामिनी ॥ ४६॥ महत्यपि न सा पूज्या या तिथि: चयगामिनी । व्रतादौ त्रिमुहर्ताऽपि स्वीकार्या वृद्धिगामिनी ॥४७॥ तर व्रतादि कुर्वीत वृद्धिह्रासादिकारणम् । यदा पक्षक्षयं याति तदा स्यादापरालिकी ॥४८॥ उदयास्तगता पूज्या तिथिवृद्धिक्षये तिथेः । व्रतखीकरणे चैतदुक्तं श्लोकचतुष्टयम् ॥ ४६॥ गृहीत्वोदङ्मुखं पात्रं वारिपूर्णमुदङ्मुखः । उपवास तु गृह्णीयाद्यहासं कल्पयेडुधः ॥ ५० ॥ मैत्रे मुहूर्तमेतच्च कार्य नो चेहथा फलम् । भाषढशुक्लकादश्यां याम्यायनदिने तथा ॥ ५१ ॥ चातुर्मास्यव्रतं सर्व खोकाय भुक्तिमुक्तिदम् । हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥ ५२ ॥ ब्रह्मचर्यमधःशय्या नक्तभोज्यं षडाचरेत् । दिवानिद्राऽनृतं यतं ताम्बलं मद्यमासवम् ॥ ५३॥ कांस्यं मांसं मसूरंच चणकं कोहवं तथा । एक मधु परान्नं च मुरा क्षौद्रं च मैथुनम् ॥ ५४॥ असज्जलपानं च लोमं वितथभाषणम् । चारं प्रतिग्रहं तैलं तिलपिष्टमहंततिम् ॥ ५५ ॥ व्यायाम व्यवसायं च कामं क्रोधं मदं तथा । दम्भं मोहं च मात्सर्य तिलमुहादिभक्षणम् ॥ ५६ ॥
Aho ! Shrutgyanam