________________
४१
ब्रह्मसिद्धान्तेक्रान्तिगत्यन्तरं षष्टि निक्यामितिः फलम्॥२७॥ इच्छास्थित्यर्धनाड्यः स्वमृणं काले च मध्यमे । निर्गमश्च प्रवेशश्च पातस्याथ विबुध्यताम् ॥२८॥ मत्यारैक्यं चान्तरं वा गत्यन्तरमितीरितम् । न चेत् क्रान्त्यन्तरं वादी त्वन्तरैक्यं न मानयाः ॥२६॥ स्यादेतत् प्रथम प्रश्ने तूष्णौं गत्यन्तरं यतः । कथितं तत्क्रान्तिभुक्ती गत्यैक्यं च न संस्थितिः ॥ ३०॥ एवं चेद्ग्रहयोर्मध्यं मानै कयाधं भवेल्लये। स्यात् तदा समलिप्तौ तौ मध्यकालौ यदाऽपि च ॥३१॥ क्रान्तिन कारणं यस्मात् तस्मादेतन्न संमतम् । उपाय: क्रान्तिसाम्याथं कश्चिदत्र निरूप्यते(१) ॥ ३२॥ तत्र स्नानेन दानेन दत्तश्राइजपादिभिः । यत् प्राप्यं सुमहच्छ्यस्तत्कालज्ञानतोऽपि च ॥३३॥ अविशेषण सर्वाणि नक्षत्राणि व्रतानि तु । रायव्यापिनक्षत्रे कुर्यादा तदुपस्थिते ॥ ३४॥ सर्वत्र याः संनिहिता नाडयस्तास्ताः सुपुण्यदाः । त्रिधा बिभज्य रात्रिं तां मध्यांश यन्न तारकम् ॥ ३५ ॥ उपोषितव्यं यद्यत्र येनास्तं याति भास्करः ।
(१) २ पुस्तके ऽधिकः पाठः। दिग्भेदेऽपीति दिक्तोल्यमेतावत् कल्प्यमेव च । प्रज्वलज्जवलनाकारे काले यावत् पतत्यसो ।।
Aho! Shrutgyanam