________________
नात्मज ।
ब्रह्मसिद्धान्तेअवटस्थमधोभागं क्षितिजादत्र कारयेत् ॥ २२७॥ उपपंधोगता नाडयः क्षितिजाः स्युरहर्निशोः । साक्षे चक्रस्य तियवादुदयस्थो दृगुत्तरम् ॥ २२८॥ क्षपा सञ्चरतोऽल्पा स्यादनल्पं दिनमात्मज । अन्यदेतस्य संयातुलेङ्काक्षितिजमण्डलात् ॥ २२६ ॥ अत अवं प्राप्तदृष्ट्या क्षितिजात् ताशात् स्वकात् । एवं सत्युत्तरक्रान्तौ त्रिंशतोऽल्पाधिकं दिनम् ॥ २३० ॥ पूर्वापरामरांशे तु याम्यक्रान्तौ विपर्ययात् । अक्षच्छया हादश चेन्मेषादिनितिजान्तरम् ॥ २३१ ॥ क्रान्तिज्यालघुकक्षायां तक्षितिज्ये ति चोच्यते । तचापाचँ दिनव्यासदलं त्रिज्येति कल्प्यताम् ॥२३२॥ सा विशिष्टा चरज्या च चरप्राणा हि तदनुः । नाडयः पञ्चदशैतेन यक्षपार्धादिसंस्कृताः ॥ २३३ ॥ दिनक्षिपे तद्दिगुणे षष्टिरेव तयोर्युतिः । कक्षायामधिकाल्यायां महत्यल्याश्च नाडिकाः ॥ २३४ ॥ महान्तोऽल्पास्तथांशा यहेषुवत्यां ततोऽधिकाः । भान्तकक्षासु षट्स्वल्पास्तोकास्तोकेन नारद ॥२३५॥ तदैवैदं भवेदोजपदे क्षिप्त्वाऽऽदितोऽन्यथा। अनोजपदभेष्वेव दुःसाध्यत्वाच्च कस्य चित् ॥ २३६ ।। युक्तिसियैव कक्षाणां कल्प्यं व्यासदलं समम् । इष्टद्यभुक्तिकर्णार्धमेकदित्रिभमौर्विकाः ॥ २३७॥
Aho ! Shrutgyanam