________________
ब्रह्मसिद्धान्त
तत्पश्चाञ्चलितं चक्रमुपचारोऽयमित्यपि ॥ १८५ ॥ तत्तत्पश्चाल्ल क्रान्तिप्रसङ्गादद्रिहग्लवाः ।
ततोऽन्यथाऽथ प्रत्यब्दं किञ्चित् किञ्चिद् व्रजन्ति हि ॥ १८६ तत्तत्पश्चाल्लवक्रान्तिप्रसङ्गेऽपि निजास्पदात् ।
३४
-
पश्चिमांशक्रमप्राप्ते प्राक् चक्रं चलितं हितम् ॥ १८७ ॥ यावत्सृष्ट्यादिनिर्दिष्टस्थानं तावत् प्रभान्ति ते । भाद्येषु चरतां तेषामन्तरांशास्तदास्पदात् ॥ १८८ ॥ तत्तत्प्रागंशकक्रान्तिप्राप्तेः स्वात् प्राग्लवस्य च । प्राक् चक्रं चलितं चेति नारदैवोपचर्यते ॥ १८६॥ प्रागंशक्रममप्राप्ते प्राक् चक्रं चलितं भवेत् । प्राक् पश्चाञ्चलनांशोनाः खर्णं स्याद्भास्करादिषु ॥ १६० " क्रान्तिकीलांशलग्नानां लम्बनं युगतं द्वयोः । स्फुटार्थमयनार्थं च प्रत्यहं दयास्तयोः ॥ १११ ॥ यद्दिने यस्य कक्षा च तत्र तेषां प्रवृत्तितः । इत्येतदेकं चलनं प्राक् युगे तानि च षट् शतम् ॥ ११२ ॥ युक्त्याऽयनग्रह स्तस्मिंस्तुलादौ प्राक्चलं भवेत् । यद्वा तच्छुद्धचक्रे वा मेषादौ प्राक् चलं भवेत् ॥ १८३॥ अयनांशास्तद्वभुजांशाविघ्नाः सन्तो दशोदुष्टता: । प्राक् प्रत्यक्चलनं 'चक्रस्यैवेति मनुते तु यः ॥ १६४ ॥ चलांश संस्कृतस्तस्य ग्रह एव स्फुटग्रहः । अनभ्युपगमादेतस्योपचारच चेदिति ॥ १६५ ॥
Aho! Shrutgyanam