________________
पितामहसिद्वान्तः। र्धन विभजेत् । लब्धं क्रान्त्यग्रे शरो ग्रहाणामकवचमुत्तरे दक्षिणे च विक्षिप्तिरस्ति । : अथ चन्द्रादीनां मध्यमविक्षेपा: । सन्यमुनियमा: २७०, सन्याशाः ११०, यमशरेन्दवः १५२, रसा. गाः७६, षड्गुणेन्दवः १३६, खाग्निभुवः १३० । चन्द्रपातयोगकेन्द्र जीवां चन्ट्र मध्यमविक्षेपहतां व्यासाधन विभजेल्लवं चन्द्र स्फुटविक्षेपः । तात्कालिकस्फुटग्रहस्फुटपातयोगज्यां भौमजीवसौराणां मध्यविक्षेपहतां स्फुटान्त्य कर्णेन विभजेल्लब्धं तेषां स्फुटविक्षेपः । बुधशुक्रयोस्तु तात्कालिकशीघ्रीच्चस्फु. टपातयोगज्यां स्वमध्यविक्षेपहनां स्फुटान्त्यशीघ्रकर्णेन विमजेल्लब्धं तयोः स्फुटविक्षेपः । क्रान्तिचापस्फुटविक्षेपयोटिंगैक्ये योगो भेदे वियोगी यहिक शिष्यते सा स्पष्टक्रान्तिः । तस्या योगवियोगतः शिष्यते या दिक् नहोलस्थी ग्रहो भवति । एवं ग्रहाणामुत्तरेण दक्षिणेन च गतिर्नया । भचक्रवशेनोदयास्तमयौ कुर्वन्तः पश्चिमेन यान्ति पूर्वी ब्रजन्तो भगणपरिवार्तान् कुर्वन्ति । तत्र च सूर्योचपातैः सममेक लङ्कादक्षिणोत्तरं गत्वा फाल्गुनान्ले सर्व एव कल्यादावर्कोदये मीनमेषसन्धिगा भवन्ति कल्पावसाने च । मेषप्रवेशे वा
Aho ! Shrutgyanam