________________
ज्योतिषसिद्धान्तसंग्रह 'न्द्रस्य राशित्रयं पदाख्यम् । प्रथमपदे तदेव । द्वितीयपदे तटूनं षड्भम् । तृतीयपदे षड्भोन केन्द्रम्। चतुर्थपदे चक्रादूनं ज्याकेन्द्रम्। निप्ता राशिलिप्ताष्टभागेन भाज्याः। लब्धाङ्कसमा ज्या स्थाप्या । अवशेषमनन्तरज्यान्तरेण गुण येदराशिलिप्ताष्टभागेन विभजेल्लब्ध स्थापितजीवायां दत्त्वेष्टज्यासिद्धिः । कालप्रमागोम्यो लिप्तात्वेन परिकल्पितेभ्यो जीवा कार्या। अभीष्टजीवातो यावन्ति ज्यान्तराणि शुद्दयन्ति तावन्ति शोध्यानि । अवशिष्टं राशिलिप्ताष्टभागहतं ज्यान्तरेण विभजेत् तत्संख्याहतराशिलिप्ताष्टभागलिप्तासु क्षिपेत् चापभागाः स्युः। शरान्तरेवं शरचापभागाः । भागचतुर्विशतिज्या परमापक्रमज्या। मेषादिस्थो विषुवल्ले खास्थो ग्रहो भवति । कुलीरस्थश्चोत्तरेण परमापक्रमान्तरस्थो भवति । तुलादिस्थो विषुवल्लेखास्थः । मका. रादिस्थो दक्षिणेन परमापक्रमान्तरेण भवति । ग्रहज्यां परमापक्रमज्यया हतां व्याप्सार्धन विभजेल्लब्धं क्रान्तिज्या । तच्चापं क्रान्तिः क्रमसिहा । तत्र ग्रहाणां कर्कटादि दक्षिणायनं मकराद्युत्तरम् । मेषाद्युत्तरगोलः । तुलादिक्षिणगोलः । गोलवशेलापक्रमदिक् । स्फुटग्रहज्यां परमशरहतां व्यासा
Aho! Shrutgyanam