________________
पितामहसिद्धान्तः । वाप्तमष्टादशज्यान्तरात शोध्यमेकोनविंशज्यान्तरं स्यात् । तदष्टादशज्यायां दत्त्वा एकोनविंशी ज्या स्यात् । तत एकोनविंशज्याया: प्रथमज्यया भागमपहृत्यावाप्तमेकोनविंशज्यान्तरात् शोध्यं विंशज्यान्तरं स्यात् । तत एकोनविंशज्यायां दत्त्वा विंशतिज्या स्यात । तती विंशतिज्यायाः प्रथमज्यया विभज्यावाप्तं विंशज्यान्तरात् शोध्यं एकविंशज्यान्तरं स्यात् तत् विंशज्यायां दत्त्वा एकविंशी ज्या स्यात् । एकविं. शतिज्यायाः प्रथमज्यया भक्तामवाप्तमेकविंशज्यान्तरे शोध्यं हाविंशज्यानतरं स्यात् । एकविंशज्यायां दत्त्वा हाविंशी ज्या स्यात् । ततो हाविंशज्यायाः प्रथ. मज्यया भक्तं लब्धोनहाविंशज्यान्तरं त्रयोविंशज्यान्तरं स्यात् । तद् द्वाविंशज्यायां दत्वा त्रयोविंशी ज्या स्यात् । ततः प्रथमज्याप्तं त्रयोविंशज्यान्तरात् संशोध्यं चतुर्विशज्यान्तरं स्यात् तत् त्रयोविंशजीवायां दत्वा चतुर्विंशज्या स्यात्। __खखरमेन्टुयमाः स्खकनाया व्यासाधं स्यात् । तदेवानुपदव्यासेन ज्यान्तराणां व्यस्तानामन्तराल. योगे चतुर्विशतिः शरा भवन्ति । क्रमज्याकृतिासार्धवर्गतः शोध्या तन्मूलं तत्कोटिज्या। कोटिज्योन व्यासाधं शरः । यासां लिप्तानां जीवा क्रियते तत्के
Aho! Shrutgyanam