________________
ܐ
ज्यौतिषसिद्धान्तसंग्रहे
भानोर्गगनमध्यवर्त्तिन्यादित्ये द्वादशाङ्गलशङ्कना समावनौ छाया ग्राह्या । तद्दर्गे व्यासार्ध वर्गहते छायाशङ्कवर्गयोगेन विभजेल्लवमक्ष ज्यावर्गो भवति । तत्पदमच ज्या तञ्चापं खदेशाचांशाः । तान् राशित्र्यादपास्य खदेशावलम्बकी भवति ' तज्ज्या लम्बज्या 1 त्रिज्यावर्गस्य क्रान्तिज्यावर्गोनस्यपदं वा हर्व्यासार्धम् । तस्य च क्रान्तिवशेन दिक् । क्रान्तिर्विषुवच्छायाहता शङ्कहृता क्षितिज्या । त्रिज्याहता सा खाइर्व्यासार्धभाजिता च रज्या तनुश्चरार्धप्राणाः 1 तद्घटिकाभिः पञ्चदशघटिका युता दिनार्धम् । एवमूना राज्यर्धम् । एवमुत्तरगोले । दक्षिणे व्यस्तम् । एकद्वित्रिराशिज्यानां वर्गाः खखक्रान्तिज्यावर्गोनास्तन्मूलानि व्यासा - गुणितानि खखार्थ्यासाधैर्भागहारः । अवाप्तधनुषामत्रोऽघः शोधनेन व्यचराश्युदयप्राणा मेषवृषभमिथुनानां क्रमेण । कर्क सिंह कन्यानामुत्क्रमेण । तुलावृश्चिकधनुर्धराणां क्रमेण । मकरकुम्भमीनानामुक्रमेणोदयाः । मेष वृषभ मिथुनादि जो वाभ्यञ्चरप्राणाः कर्त्तव्याः 1 तेषामघोषः शोधनेनैकवित्रिराशिचरप्राणाः । तैः क्रमेण मेषवृष मिथुनोदयप्राणा 'हीनाः । उत्क्रमेण कुलीरसिंहकन्यानां युक्ताश्च ।
Aho! Shrutgyanam