________________
२४
ब्रह्मसिद्धान्ते
भानोर्भा महौकाया महत्वात् मण्डलस्य तु । अर्कस्य भूम्याः सूच्यग्रमानं शेषमिलार्कयोः ॥ ६३ ॥ असंकुचितशुद्धार्क कक्षा व्यासदलं फलम् । भूकर्ण इच्छाछायाघ्नस्ततो लिप्तास्तदङ्गुलम् ॥ ६४ ॥ अर्केन्दुकचात्र्यासार्धे स्फुटै संकुचिते क्रमात् । मानेच्छ । फल मर्केलाशेषं प्रोज्भ्य ततः फलम् ॥ ६५ ॥ भूकर्णादिन्दुकक्षायां छायाव्यासस्तदातनम् । युक्त्या कालाङ्गतं बच्चे युक्तयन्तरमतिस्फुटम् ॥ ६६ ॥ भूछायेला गतस्याथ तरणिभ्रमणे विधोः । सूचीमध्यमकक्षायां कियतीति महीश्रवः ॥ १७ ॥ स्फुट सूर्येन्दु भुक्तिन्नो भक्तो मध्यमया फलम् । स्फुटार्कचन्द्रकणीप्तं फल मर्क मृगाङ्कयोः ॥ ८ ॥ मानेच्छमध्यकर्णस्तु प्रोज्झ्य सूच्याऽपि भ श्रवः । तिथ्यः कलायां सन्त्येवमेतदर्धं विधोः श्रवः ॥ ६६ ॥ मध्यमिच्छाधिकाल्पार्क विम्बाभ्यां तादृशं त्वृणम् । मध्यार्कश्रवणे मानं तथा स्यादिति तन्मतम् ॥ १०० ॥ तस्यां स्फुटार्ककक्षायां व्यासार्धेनाधिकेन वा । अधिकाल्पमृण माने नाधिकाल्पेऽर्कमण्डले ॥ १०१ ॥ परिध्यंशहते विम्बव्यासी विम्बथवो भवेत् । उच्चेन तु समं येन योऽपकृष्येत् स तत्समः ॥ १०२ ॥ योऽत्यज्य उच्चो नीचाल्पः खबज्डखल्प एव च ।
Aho! Shrutgyanam