________________
ब्रह्मसिद्वा-ते--
एकापकर्षगं कल्प्यं ग्रहस्यापि तथा पुनः । उपग्रहा न सन्तीति यदि ब्रूयाच्चतुष्टयम् ॥ ३४ ॥ कर्मणां स्याग्रहस्यैव सन्ति तस्मादपग्रहाः । अर्धाख्येनापकृष्टश्च नीचर्नीचैयथा तथा ।। ३५ ।। उपग्रहोपकृष्टः स्यात् सग्रहस्तेन चेदिति । नैवमर्धग्रहस्थानजानमेव तथोच्यते ॥ ३६ ॥ खच्छन्दगमनं तद्धि किंतरुिच्चनीचता । अर्धाख्येनोपकृष्टश्चे स्पष्ट उपग्रहः ॥ ३७॥ ग्रहश्चाप्यपकृष्टः स्यात् तदभावान्न तद्भवेत् । विक्षेप्यौ च न चेहमी पाताभ्यां शुक्रचन्द्रजौ ॥३८॥ विक्षेप्यौ तौ तथा क्षेलिप्ता चेन्न स्फटा स्खदिक । . अपकृष्टैर्ग्रहैः साकं कर्षका यान्ति यत् ततः ॥ ३६॥ तेऽयकृष्टाः स्वमन्दाद्यैः पातास्तैश्च ततः फलम् । टतीयमपि पातानां ग्रहवन्नेति कल्प्यते ॥ ४० ॥ तस्मान्मन्दार्धमन्दोच्चमध्ये यावटुपग्रहः । याति यहिशि तावत्येवास्त तद्दिशि मध्यमात् ॥४१॥ स्वच्छन्दाकर्षकश्च क्षेपश्चलनमन्यथा । शीघ्रोच्चावेव शीघ्राख्यौ बुधशुक्रौ न चेतरौ ॥ ४२ ॥ इति चैतागुच्चाम्यां ग्रह स्थानं च बुध्यताम् ।। याम्योत्तरगती तहदुकमाङ्गास्करस्य च ॥ ४३ ॥
Aho ! Shrutgyanam