________________
प्रथमोऽध्यायः ।
कचिदेतैर्वसन्ताद्या यजमानेच्छया पुनः । संपरोदन्विताद्यास्तु (१) वत्सराः प्रभवादयः ॥ ३६ ॥ प्रमाथी प्रथमं वर्षं सौर कल्पस्य सर्वदा । दिव्यैरहोभिर्ब्राह्मर्वा वर्षज्ञानं पुरोक्तवत् ॥ ३७॥ दिव्याब्दानां सहस्राणि द्वादशैव चतुर्युगम् । युगस्य दशमी भागश्चतुख्रिव्येकसङ्गणः ॥ ३८ ॥ क्रमात् कृतयुगादीनां षष्ठांशः सन्धयः खकाः । युगेषु तत्र ( २ ) वर्तन्ते गतागतयुगस्थिती ॥ ३८॥ कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया । सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ॥ ४० ॥ चतुर्युगाणां सैका स्यात् सप्ततिर्मनुसञ्चरः । कृताब्द संख्या तस्यान्ते संविधात्री जलप्लवः ॥ ४१ ॥ मन्वन्तरव्यवस्थं यं प्राजापत्यमुदाहृतम् । कल्पे ससन्धयो ज्ञेया मनवस्ते चतुर्दश ॥ ४२ ॥ कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः । इत्यं युगसहस्रेण भूततारादिमानकः ॥ ४३ ॥ संहारकारकः कल्पः कथितस्तत्र नारद । सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ॥ ४४ ॥ रात्रिं युगसहखान्तां तेऽहोरात्रविदो जनाः ।
(१) संपरीदान्विदाद्यास्तु -- पा० १-२ १० | (२) युगपत् तत्र -- - पा०१५ 1.
१॥
Aho! Shrutgyanam
५