________________
॥ श्रीः॥ ॐ नमः परमात्मने ।
ब्रह्मसिद्धान्तः । ब्रह्मणा विरचितः।
ध्यानयोगसमारूढं ब्रह्माणं त्रिजगदगुरुम् । अभिवाद्य सुखासीनं नारदः परिष्टच्छति ॥ १ ॥ देवदेव जगन्नाथ सर्वज्ञ कमलासन । ज्योतिषां चरितं ज्ञानं ब्रूहि कालाशयं महत् ॥ २॥ अधीतमखिलं छन्दः स्थाणुरूपं प्रतीयते । अङ्गै विना यथैवाङ्गी तस्मादेतत् प्रसीद मे ॥३॥ इत्येवमुत्तो विश्वात्मा नारदेन महर्षिणा। पुत्रेण धीमता प्रीत्या वाक्यमेतदभाषत ॥ ४ ॥
ब्रह्मोवाच । साधु साधु महाभाग यन्मां त्वं परिष्टच्छसि । विस्तरेण प्रवक्ष्यामि तन्मे निगदतः श्टणु ॥५॥ नारायणः सुरश्रेष्ठो वेदाकारेण वर्तते । छन्दःशारखं तस्य पादौ कल्पः पाणी मुखं तथा ॥६॥
Aho ! Shrutgyanam