________________
गोलाध्यायः । तत्त्व नस्यादिवाक्यैर्यत् सम्यकज्ञानं प्रजायते । तेन नश्यति सा माया नान्यथा कोटिकर्मभिः ॥ ७२ ॥ विनष्टोव्याकृतं स्वस्थानिरूपपरमासतम्(१) । कटश्य मोक्ष इत्युक्तं चित्रं तत्र विचारय ॥ ७३ ॥ समाधिमार्ग एवायं संसारजयकारणम् । एतद्ध्यायन् बुद्धिमान् स्यात(? कृतकृत्यः स एव हि ॥७॥ इति गुह्यतमं शास्त्र भुक्तिमुक्तिफलप्रदम् । अधिगम्य ततः मोमाच्छौ नकः पूर्णमानसः ॥ ७५॥ लक्षदे हाश्च देहैश्च पूर्ण चक्षुः पुनः पुनः । नमस्कत्वा मिषादेया विवशो गहुदस्वरः ॥ ७६ ॥ तुष्टाव शान्तः स्वगुरु शान्तं सविग्रहं मुनिम् । जय चन्द्रामृतांशो मी जय शङ्करभूषण ॥ ७७॥ भय सर्वच सर्वात्मन् जय सर्वेश्वर प्रभो। कृतार्थोहं कृतार्थोहं पुण्योहं पतविग्रहः ॥ ७८॥ धन्योहं वीतशोकोहमित्योंब्रह्माहमेव च । अच्छेद्योहमदाह्योहममकं हमहं शिवम्(?) ॥ ७९ ॥ अहं विष्णुरहं ब्रह्मा शक्रोहमहमंशुमान् । अहमग्निरहं व्योम सर्वमेतदहं जगत् ॥ ८० ॥ त्वत्प्रसादागहश्रेष्ठ एवमेतदवैम्यहम् । त्राहि माभिति संप्रार्थ्य प्रणिपत्य पुनः पुनः ॥ ८१ ॥ गुरुं समर्चयानास गन्धपुष्पाक्षतादिभिः ।
Aho ! Shrutgyanam