________________
३२
सोमसिद्धान्ते । उपरिष्टाङ्गगोलोऽयं व्यक्षे पश्चान्मुखः सदा ॥ ४ ॥ चुम्बकीममिन्यायन उच्चपाता अदर्शनाः । ग्रहा नानागतिं कुर्युर्देवता भगणाथिताः ॥ ४१ ॥ प्रवहः श्वसनश्चेतान् स्वोच्चाभिमुखमीरयेत् । एवं यत् प्राङमुवं यान्ति तड्नं ऋणमन्यथा ॥ ४२ ॥ दूरस्थितः स्वशीघोच्चाङ्गहः शिथिलरश्मिभिः । सव्येतराकष्टतनु वेडक्रगतिस्तदा ॥ ४३ ॥ नपषड्वगपञ्चाशदत्यष्टोफुरसैः कुजात ।। अन्त्य केन्द्रांशनीचांशैर्वक्रिणो यान्ति पातवत् ॥ ४४॥ वक्रानुबक्रा कुटिला मन्दा मन्दतरा समा। तथा शीघ्रातिशीघ्राख्या ग्रहाणामष्टधा गतिः ॥ ४५ ॥ मन्दादिपञ्चसंज्ञाश्च वक्र चान्यैः प्रकीर्तिताः ।। पातोपभोगः खेटानामुत्तराभिमुखं नयेत् ॥ ४६ ॥ ग्रहाः प्राग्मगणाईस्था दक्षिणाभिमुखं तथा । पाताभ्या अपकृष्यन्ते शीघ्रोचं बुधशुक्रायोः ॥४७॥ तच्छोघाकर्षणात्तौ तु विक्षिप्यते यथोक्तवत् । अत्ते ग्रहस्य क्षेपान्ते स्वक्रान्त्यन्तात्प्रसार्यते ॥ ४८॥ भूटतं क्रान्तिभागघ्नं भगणांशविभाजितम् । अवाप्त योजनैय॑क्षादपरिस्थो ग्रहो व्रजेत् (?) ॥ ४६॥ मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरः । सञ्चरन् प्रागहमध्यं पूरयेन्मेरुवासिनाम् ॥ ५० ॥
Aho ! Shrutgyanam