________________
२८
सोमसिद्धान्ते । योगेशौ च व्यतिपात: प्रज्वल उज्वलनाकृतिः । व्यतिपातोऽत्र यो घोरः सर्वशोभननाशनः ॥ १० ॥ स्नानदानजपथावव्रतहोमादिकर्मभिः । प्राप्यते सुमहत्पुण्यं तत्कालज्ञानतस्तथा ॥ ११ ॥
इति श्रीसोमसिद्धान्ते चतुर्थ पाताध्यायो नवमः ॥ अमृतांशुश्च भगवान्मनसालोच्य यज्जगत् । दृश्यते सर्वमेवैतदिदं वचनमब्रवीत् ॥ १ ॥ अहमेव परं ब्रह्म परमात्माजरामरः । अव्यक्तो निगम: सानी कूटस्थो यो निरञ्जनः ॥ २॥ अनादिपुरुषो ऽनन्तो ह्यवाङ्मनसगोचरः । सत्य एव परं ज्योतिरहितीयश्च केवलः ॥ ३ ॥ श्रानन्दकायकरणविहीनी निर्भयः शिवः । श्रणोरगीयान् महतो महीयान् ज्ञानविग्रहः ॥ ४ ॥ मनसः सलिलं जातं तन्मे सर्व प्रतिष्ठितम् । मय्येव लीयते सर्व नात्र कार्या विचारणा ॥ ५ ॥ अनादिमम पीयूषा प्रकतिर्विश्वकारणम् । प्रोक्तमप्याकतिर्नाम्ना स्नानसन्यासदङ्गतम् (१) ॥ ६ ॥ नो भिन्नं नाप्यभिन्नं च कुतश्चिनिन्नमेव न । भिन्नाभिन्नं च नो येषां वयं वा न भवानपि ॥ ७॥ नोभयं केवलं स्वच्छं ब्रह्मात्मैकत्ववग्रही। तमो नोहार कल्पान्त नहि वेत्ति स्फुटास्फुटम् ॥ ८॥ (१) सा च सत्यास द्रुतम् ।।
Aho! Shrutgyanam