________________
२६
सोमसिद्धान्ते । इतरान्तस्थयान्याभिर्धनणं तत्फलं तथा । भूयो नाडयो मुहती चेदसकत्ताभिरस्ततः ॥ १८॥ अस्ताकमानतः पश्चादन्यस्तहिवसो भवेत् । सषड्भार्कदिनेन्यस्मिन्न षड्भानि विनिक्षिपेत्॥११॥ अन्यत्सर्व प्रकुर्वीत राशिरुर्वमधस्ततः । उदेत्यन्य इति प्रोक्त उदयास्तविनिर्णयः ॥ २०॥
इति थोसोमसिद्धान्ते ग्रहोदयास्तमनाधिकारः सप्तमः ॥ अर्केन्दोः क्रान्ति विश्लेषो युतिस्तुल्याऽन्यथादिशोः । तन्मौर्विकार्काद्यवेन्दुस्तदिच्छा गुणितोऽनया ॥१॥ मध्याह्रश्चन्द्रभाकर्ण स्तत्स्था दिक्त्वादवागुदक् । द्वादशनाक्षजीवायां स्वर्ण लम्बज्यया भुजः ॥ २ ॥ पदं तच्छङ्कवर्गक्यात् कर्णः कोटिस्तु भास्करः। भास्करोनेन्टुकलिकाश्चन्द्रबिम्बाङ्गलाहता ॥ ३ ॥ भचक्राईकलाभक्ता शुक्लकणविमण्डली। बाइ यथादिशं काष्ठां मध्यविन्दोः प्रसारयेत् ॥ ४॥ वामं कृष्णं ततः पश्चान्मखीकोटिकतं तयोः । मध्ये लिखेच्चन्द्र बिम्ब कोटिकर्णयुतेः स्फुटम् ॥ ५ ॥ कर्ण सूत्रण दिक् शुद्धा विम्बापरदिशाश्रितम् । शक्लं वा कृष्णसूत्रेण नीत्वा तन्मखमन च ॥६॥ माम्योत्तरदिशोश्चापं लिखेच्छङ्गोन्नतिं वदेत।
Aho! Shrutgyanam