________________
नक्षत्रग्रहयुद्ध समागमः ।
२३
ग्रहान्तरैकविक्षेपे भागे तस्मिन् समागमः ॥ २३ ॥ युद्धमंशुविमर्दाख्यं परव्यासमतोनके । एकोन चेदृणुद्दैौचेदत्र स्थूलौ समागमौ ॥ २४ ॥
शाधिके तौ प्रबलौ यदि स्यातां समागमौ । अंशाधिके तु तौ खल्पौ विध्वस्तौ कूटविग्रहौ ॥ २५ ॥ स्थूलो जयी रश्मिपश्च जितो यो गुरुदीप्तिमान् । उदक्स्यो दक्षिणस्थो वा भार्गवः प्रायशो जयी ॥ २६ ॥ वेदोग्नयो द्यष्टयोष्टा**षष्टिर्ग जाब्धयः । विष्कम्भश्चन्द्रकक्षायां भौमादीनां यथाक्रमम् ॥ २७ ॥ एकज्यानाश्चतुर्मास्ते द्विचतुष्कर्णभाजिताः । स्फुटव्यासः पञ्चदशविभक्ता मानलिप्तिकाः ॥ २८ ॥ एकज्या द्विगुणास्तेंशा भुक्ता वा बिम्बयोजनम् । भौमादीनां तु मार्गेयमेवानुक्तेः पुनः स्फुटः ॥ २६ ॥ खदृष्टनतानतस्थाने यथा दिभ्रमणं समे । शङ्खद्दये स्थापिते तच्छायामार्गान्तरं गतः ॥ ३० ॥ छायादिशि वशक्त्यग्रे दर्पणस्यं मुखं यथा । तथा पश्येद् ग्रहं ताराविक्षेपान्तसमन्विते ॥ ३१ ॥ फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः । विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता ॥ ३२॥ पश्चिमोत्तरतारायां द्वितीया पश्चिमे स्थिता । हस्तस्य योगतारासौ श्रविष्ठायाश्च पश्चिमा ॥ ३३ ॥
Aho! Shrutgyanam