________________
सोमसिद्धान्ते । एषे सप्तदशे भागे यस्य याम्योंशकहयात् । विक्षेपोभ्यधिको भिन्द्याट्रोहिण्याः शकटं तु सः॥१४॥ ताराग्रहाणामन्योन्यं युद्ध वाथ समागमः । समागमं चन्द्रधिष्ण्यैः सूर्येणास्तमयः सह ॥ १५ ॥ मन्दशीघाधिकानेता(१) संयोगे गतगग्ययोः । कालयोर्व क्रिणोय॑स्तं प्राग्यायिन्योधिको गतः(२)॥१६॥ भुक्त्यन्तरेण भुक्तिमा ग्रहान्तरकलाहृता । एकस्मिन् भुक्तियोगेन वक्रिण्यस्तु समेधिकाः ॥ १७॥ ग्रहान्तरकलास्तहङ्गतयोगदिनानि हि। विक्षेपो विषुवङ्गानः सूर्याप्तो नतसंगुणः ॥ १८॥ दिना_प्त उदकक्षेपे स्वर्ण पश्चिमपूर्वयोः । दक्षिणा: प्राक्प्रतीच्यास्ते तक्कर्म ग्रहस्तु सः॥ १६ ॥ सविम्ब(३)ग्रहनक्रान्तिक्षेपनास्त्रिज्यया हृता । षट्कृत्याप्ता ध्रुवः स्वर्णं भदिशोभिन्नतुल्ययोः ॥ २० ॥ द्वितीयमेतद् दृकर्म केचिन्नेच्छन्ति सूरयः । समलिप्त्योः पुनः कार्यावेतौ दृक्कर्मयुग्ग्रहो ॥ २१ ॥ एतयाभिन्न तुल्यांशाक्षेपैक्यान्तरतोधिके । मानैक्याई भवेतां तु तुल्यस्यशैन्यथान्यथा ॥ २२ ॥ भागाब्य परितो लब्धनाविष्टत्यांशाविरण्मयः ।
(१) मन्दाच्छोघाधिकोने त । (२) प्राग्यायिन्यधिके गतः । (३) सत्रिभ ।
Aho! Shrutgyanam