________________
ज्यौतिषसिद्धान्तसंग्रहे सेन्दुयमैर्यस्यैव कक्षा विभज्यते तस्यैव लिप्तायोजनानि लभ्यन्ते । कल्पाध्वयोजनसमा खकक्षा । यदन्त : खं वितिमिरं रविः करोति ।
खखाक्षतवोऽर्क मण्डलप्रमाणम् । खाष्टवेदाश्चन्द्र. मसः। पञ्चदश भौमख । षष्टिर्बुधस्य । खाको जीवस्य । खखयमाः शुक्रस्य । त्रिंशत् सौरस्य ।
द्वादशदृश्यांशाश्चन्द्रमसः । सप्तदश भौमस्य । योदश बुधस्य । एकादश जीवस्य । नव शुक्रस्य । पञ्चदश सौरस्य ।
त्रिभागोनाचतुर्दश भागाः सूर्यस्य । एकविंशत् भागा: षविंशल्लिनायुताश्चन्द्रमसः । सप्ततिभॊमस्य । वसुरामा बुधस्य । गुणरामा जीवस्य । भवाः शुक्रस्य । त्रिंशत् शनैश्चरस्य एवं मन्द परिधयः ।
भौमख्य शीघ्रपरिधिर्गुण वेदाधिभागाः । बुधस्य भागा यमाग्नि चन्द्राः । वसुरसा जीवस्य । वसु. बामदखाः शुक्रस्य । पूर्णाञ्चयः सौरस्य । परिधिवशेनोर्ध्वमधश्च ग्रहगतिर्जेया । ___ खखरमेन्टुयमलानां २१६०० परमवतिभागः प्रथमज्या। एवं प्रथमज्यायाः प्रथमजीवया भागमुद्धत्यावाप्तं प्रथमज्याया: शोध्यं द्वितीयं ज्यान्तरम् । प्रथमज्याहितीयज्यान्तरयोगो द्वितीयज्या। द्वितीय
Aho! Shrutgyanam