________________
स्पष्टाधिकारः ।
११
हरिजकालभागाश्च लग्नं यस्तं तु साधयेत् (१) ॥ ३३ ॥ ग्रहदोर्ज्याद्रिगोविश्वैर्हता विज्योद्धृता धनुः । तस्याः क्रान्तिरुदग्याग्या तत्पूर्वापरभागजा ॥ ३४ ॥ क्रान्त्यन्त क्षेपमानेन ग्रहाणां सञ्चरं कियत् । तुलाभिन्नककुप्क्रान्तिक्षेपयोगान्तरं क्रमात् ॥ ३५ ॥ शुक्रपातयोर्मान्दं फलं मान्दं तृतीयकम् । चतुर्थं ग्रहवच्छेध्यं पातेष्वर्काङ्गिरोसृजाम् ॥ ३६॥ पातान् ग्रहेभ्यः शीघ्रोच्चात् प्रो दोर्ज्या ज्ञशीतयोः । चन्द्रात् खतारकैः खाजैः खार्केः षट्या खभाकरैः ॥३७॥ नभोर्केस्ताडयेदन्त्यचलकर्णेः स्वकैर्भजेत् । त्रिज्ययेन्दोः फलधनुर्विक्षेपः क्रान्तिवत्ककुप् ॥
चं.२७० मौ.ε० बु.१२० बृ. ६० शु. १२० श. १२० ॥३८॥ क्रान्तिज्या विषुवङ्गानी विसप्तशरसंगुणा ।
क्रान्तेः कोटिज्यया भक्ता द्विघ्नं यातरहासवः (२) ॥३६॥ तचापं स्वदिनाशे स्वर्णं याग्येऽन्यथोत्तरे । क्षेपा दिना क्रमशो भानामपि विजिस्त्रयम् (३) ॥ ४० ॥ ग्रहोदयप्राणहता राशिलिप्ताहृता गतिः । खाहोरात्नासुभिः खर्ण चक्रासुजुवक्रितः ॥ ४१ ॥ अर्कोनचन्द्र लिप्ताभ्यस्तिथयो नखपर्वतैः ।
(१) हरिजात कालभागाच्च लग्नं यत्तत्प्रसाधयेत् इति पाठः साधुः ||
(२) द्विघ्नया चरजासवः इति पाठः साधुः ॥
( 3 ) क्षपादिना क्रमशो भानामा विधिस्त्वयम् ॥
Aho! Shrutgyanam