________________
सोमसिद्धान्ते |
तथा द्वादभिर्मासैर्दिननाडी विनाडिकाः ॥ ६ ॥ षष्टिर्मधुवसन्ताद्यैर्वत्सरास्तु ऋतुर्भवेत् (१) । सुरासुराणां तद्दित्र्यमहोरात्रं विपर्ययात् ॥ १० ॥ तत्षष्टिः षङ्गणा दिव्यं वर्षमासुरमेव च । चतुस्त्रिद्येकगुणितं पूर्वोक्तं दिव्यसंख्यया ॥ ११ ॥ द्वादशाब्दसहस्रं तु युगवर्षमितिः क्रमात् । शतं तादृक्समं तेषामादौ सन्ध्याभिधीयते ॥ १२ ॥ सन्ध्यांशास्ते च तत्पूर्वापरधर्मे प्रवृत्तयः ।
सन्ध्या सन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ॥ १३ ॥ कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया । चतुर्युगानां सैका स्यात् सप्तति ७१र्मनुसम्भवः ॥ १४ ॥ सन्धीकृतमितस्यान्ते धात्रीपिण्डजललवः ।
ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश ॥ १५ ॥ कृतप्रमाणः कल्पादौ सन्धिः पञ्चदश स्मृतः । इत्यं युगसहखेण भूतसंहारकारकः ॥ १६ ॥ कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती । परमायुः शतं तस्य तयाहोरात्रसंख्यया ॥ १७ ॥ सर्वेषामेव जीवानां शतमेवायुरुच्यते ।
तत्तच्छासप्राणकालस्तमशेषविनिर्णयः ॥ १८॥ विकलानां कला षट्च्या तत्षच्या भाग उच्यते ।
(१) षड्भर्मधुवसन्ताद्यैर्वत्सरो ऋतुभिर्भवेत् ॥
एतादृशः पाठः साधुः ।
Aho! Shrutgyanam