________________
सोमसिद्धान्तः।
श्रीगणेशाय नमः। बहस्थतिसुतं शान्तं सुखासीनं प्रियेक्षणम् । अभिवन्द्यं मुनि?मान् शौनकः परिष्टच्छति ॥ १ ॥ भगवन् सर्वशास्त्रज्ञ सर्वभूतहिते रत । कथं ग्रहस्थितियोवल्लग्नकाल विधा: क्रमात् ॥२॥ उपरागच खेटानां योगश्चारग्रहाः क्रमात् । ग्रहखोदयः पातस्तत्रापि ग्रहरूपिणः ॥ ३ ॥ श्टङ्गोन्नतिजगत्मष्टिस्थितिसंहृतयोऽपि च । एतन्मे संशयं छिन्धि भगवन्नौषधीपते ॥ ४ ॥ श्रुत्वा चैतत् त्रिलोकेशश्चन्द्रमाः शौनकोदितम् । प्रत्युवाच महाभाग इदं वचनमादरात् ॥५॥ महर्षे त्वं समर्थोऽसि ज्ञातुमेतदशेषतः । श्टणु शौनक वक्ष्यामि शास्त्रं परमदुर्लभम् ॥ ६॥ वेदाङ्गमखिलं श्रेष्ठं यत्पष्टोऽहं त्वया मुनें। दशगुर्वक्षरः प्राण: षभिः प्राणैर्वि नाडिका ॥७॥ तत्षध्या६० नाडिका प्रोक्ता नाडोषध्या दिवानिशम् । तत्रिंशताक्षमासः स्यात् सावनोऽर्कोदयैस्तथा ॥८॥ तथैन्दवस्तत्तिथिभिः सङ्घान्त्या सौर उच्यते।
Aho ! Shrutgyanam