SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ज्यौतिपसिद्धान्तसंग्रहस्य हिता-वृहस्पतिसंहिता-वसिष्ठसंहिता-लोमशसंहिता-नारदसंहिता-भृगुसंहिता(१)-गर्गसंहिता(२)--पुस्तकान्यपि लधानोत्येतेषां पुस्तकानां मुद्रणहारा प्रकाशनाय ज्योतिषसिद्धान्तसंग्रहनाम्ना तानि संकलय्याबाई तेषां प्रकाशने प्रवृत्तः ॥ तत्रदानी पठनपाठनादिषु प्रचलितोऽनेकविधभाष्यटीकासहित तः सूर्यसिद्धान्तो नारदपुराणान्तर्गत:(३) यानि च वचनानि सूर्यसिद्धान्तनाम्मा भट्टोत्पलेन बृहत्संहिताटीकायां समुतानि तान्यस्मिन् सूर्यसिद्धान्ते नोपलभ्यन्ते। उपलभ्यन्ते चापरस्मिन् सूर्यसि. द्धान्ते स चायोध्याधिपतिश्रीमानसिंहमहाराजानां पुस्तकालये विद्यमानो दृटो महामहोपाध्याय श्री सुधाकरहिवेदिभिरिति स एवोपात्तविंशतिसिद्धान्तान्तर्गत इति । किन्विदानी तस्य दुर्लभ. वात् तन्मुद्रण मुपेक्षितम् ॥ ततश्च सोमसिद्धान्तस्य मुद्रणाय वाराणसीस्थसुप्रसिद्ध ज्योतिर्विदां श्रीमयूरभट्टा नां पुस्तकं प्रथमादर्शवेन कल्पितम् । हीतीयत्वेन च वाराणसी स्थ राजकीयसंस्कृत पाठशालीयं यस्यान्ते लिपिकाल एवं लिखित: ॥ (१) उपलभ्यमाना जगत्प्रसिद्ध। भगुसंहिता तु होरालक्षणाक्रान्तत्वान्न संहितायदवाच्या अस्याश्च पादानकोटिभोकात्मकत्वान्न चतुर्लक्षज्यौतिषान्तर्गतत्वम् । वास्तबीया भगुसंहिता तु शोकानां षट्साहस्री वसिष्टादिसहितासमाना वर्तते। (२) गर्गसहिता त्वियमतीव प्रामाणिको भट्टोत्पलेन बृहत्संहिताटीकायां समुदघृतानि तद्वचनानि अत्र सर्वाण्युपलभ्यन्ते । (3) नारदपुराणं चतुर्विधम् । एकं १८ महापुराणान्तर्गतम् | द्वितीयमाधानककथोपेतमाप १८ पुराणान्तर्गतं मन्यन्ते वैष्णवाः । तृतीयमुपपुराणान्तर्गतम् । चतुर्थ बुन्नारदीयं पुराणम् । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy