________________
भूमिका। इति पुराणाद् बृहस्पतिसंहितोपलम्भाच्च । तस्मादष्टादशा एव ज्योतिःशास्त्र प्रवर्तका इति सिद्धम् ।। ___-कश्यपवचनेषु पोलिशशब्देन नारदोक्तपुलस्त्यस्य ग्रहणानाष्टादश त्वव्या घातः किन्तु निर्दिष्टनारदवचनेषु सूर्यस्यानुक्तावाद ब्रह्मा सूर्यो वसिष्ठोऽविरिति पाठान्तरं वदन्ति केचित् तच्चिन्त्यम् ।
पराशरवचनेष्वपि आचार्यपदोपादानात् पूर्वोत्तरीत्या बृहस्सतिरेव एवं विश्वसृग ब्रह्मैव "ब्रह्मात्मभूः सुरज्येष्टः परमेष्ठी पितामहः ।-विधाता विश्वसृड् विधिः” इत्यमरकोशाद् अत्र सूर्यस्योपादानात् पुलस्त्य पोलिशयोः पार्थक्य नोपादानाच्च विंशतिराचार्या ज्योतिःशास्त्रप्रवर्तका इति निष्पन्नं भवति इदं च मतान्तरमिति सर्व समन्जसम् ॥
ततश्च सिद्धान्त-संहिता-होरा-रूपस्कन्धत्रयात्मके (१) ज्योतिःशास्त्रे सूर्य सिद्धान्त-सोमसिद्धान्त-ब्रह्मसिद्धान्त(२)-वसि.
सिद्धान्त (३)-लोमगसिद्धान्त(४)-व्याससिद्धान्त-भृगुसिद्धा. न्त-पराशरसिद्धान्त-पुस्तकानि प्रातानि । अपि च ब्रह्मसं.
(१) सिद्धान्तलक्षणं साह तालक्षणे होरालक्षणं च आर्यभटीयल घुसिद्धान्त प्रतिपादितम् ।
(२) ब्रह्मसिद्धान्तस्त्रिविधः प्रथमस्त्वयमेव मुद्रितः । द्वितीयस्तु पितामहासिद्धान्तनाम्ना विष्णुधर्मोत्तरपुराणे प्रतिपादितः स चानुपदमेव प्रकाशितो भविष्यति यश्च सिद्धान्ततत्त्वविवेके कमलाकरभट्टेन भृशमुपपादितः । तृतीयस्तु ब्रह्मगुप्तकृतः । अयमपि द्विविधः । प्रथमो ब्रह्मस्फुटसिद्धान्तश्चतुर्वेदाचार्य पृथदकस्वामिकृत टीकासहितो द्वितीयः खण्डनखण्डखाद्यनाम्ना प्रसिद्धो भट्टोत्पल कृतटीकासहितः । उभयमाप यथावकाशं प्रका. शितं भविष्यति ।
(3) वसिष्टसिद्धान्तोऽपि लघुवृद्धभेदेन द्विविधः ।
(४) लोमशसिद्धान्तो रोमकांसद्धान्तश्चैक एवेति वृद्धाः । गणकतरङ्गिण्यामागे २ पृष्टेऽवलोकनीयम् ॥
Aho! Shrutgyanam