________________
ज्यौतिषसिद्धान्तसंग्रहस्य
"ब्रह्माचार्यो वसिष्ठोऽचिर्मनुः पौलस्त्यलोमशौ । मरीचिरङ्गिरा व्यासो नारदः शौनको भृगुः ॥ च्यवनो यवनो गर्गः कश्यपोऽथ पराशरः । अष्टादशैते गम्भीरा ज्योतिःशास्त्रप्रवर्तकाः ॥ सिद्धान्त संहिताहोरा रूपस्कन्धत्रयामकम् । वेदस्य निर्मलं चतुर्ज्योतिःशास्त्रमिहोच्यते ॥ अस्य शास्त्रस्य सम्बन्धो वेदाङ्ग इति धाटतः । अभिधेयं च जगतः शुभाशुभनिरूपणम् ॥” इति । तथा कश्यपेनोक्तम् ।
" सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः । कश्यपी नारदो गर्गों मरीचिर्मनुरङ्गिराः ॥ लोमशः पौलिश चैव च्यवनो यवनो भृगुः । शौनकोऽष्टादशाचैते ज्योतिःशास्त्रप्रवर्तकाः ॥ " इति ॥ एवं पराशरेणाप्युक्तम् ।
'विश्वसृङ्नारदो व्यासो वसिष्टोऽत्रिः पराशरः । लोमशो यवनः सूर्यश्च्यवनः कश्यपो भृगुः ॥ पुलस्त्यो मनुराचार्यः पौलिशः शौनकोऽङ्गिराः । गर्गों मरीचिरित्येते ज्ञेया ज्योतिः प्रवर्तकाः ॥
८८
" इति ॥
अत्र नारदवचनेषु ब्रह्माऽऽचार्य " इत्यनेन ब्रह्मा पितामहो ग्राह्यः “ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठौ पितामहः" इत्यमरकोशात् । आचार्यपदेन च बृहस्पतिः ।
“देवाचार्यः सुराचार्यो नीतिज्ञो नौतिकारकः । गुरुर्जीवोऽथ वागीशो वेदवेदाङ्गपारगः ॥ सौम्यमूर्त्तिः सुधादृष्टि पीतवासा बृहस्पतिः ॥ "
Aho! Shrutgyanam