________________
७२
ज्योतिषासेद्धान्तसंग्रहे
तुलादेव भचक्रार्धे न पश्यन्ति तथा रविम् । सक्कदेवोदितं दैत्या भ्रमन्तमपसव्यगम् ॥ ११४ ॥ मेषादौ च सुराः सर्वे पश्यन्त्यर्धोदितं रविम् । तदाऽस्तमितं दैत्यास्तुलादौ च विपर्ययः ॥ ११५ ॥ विपर्ययादतस्तेषामहोरात्रं भवेद्दिन । सौरवर्षमितं तत् स्यादिनरात्रिदलेऽयने ॥ ११६ ॥ विषुवेऽथ दिने कुज्याभावः सूर्योदयं यतः । साक्षात् प्राच्यामन्य दिने ह्युदयः कुज्य कावशात् ॥ ११७ ॥ मेषादेः प्रत्यहं सूर्यो भ्रमत्युत्तरसञ्चरात् । व्याघुष्य कर्कटा देश्व दक्षिणाभिमुखं गतः ॥ ११८ ॥ भ्रमत्युत्तरगोलेऽथ तुलादेर्दक्षिणां चरन् । भ्रमत्येवं मृग।देश्च व्याघुयार्को छुदङ्मुखः ॥ ११६ ॥ अक्षक्रान्तिवशादेव' दिनरात्रिमितिर्भवेत् । यथोत्तरं रवियति दिनटद्धिस्तथा भवेत् ॥ १२० ॥ रात्रेसोऽथ वा याम्यमर्को याति यथा |
दिनहासो निशाष्टद्धिः प्राच्यां दिननिशे समें ॥ १२१ ॥ देवभागे दिननिशोः क्षयवृद्धी यदा तदा । हडियौ दिननिशोदैत्यभागे द्विजोत्तम ॥ १२२ ॥ ग्रोमा निकटे भानुरायाति द्विजसत्तम । यतोऽतो देवभागेऽत्र ग्रीभे तौत्रकरो रविः ॥ १२३ ॥
Aho! Shrutgyanam