________________
वृद्धवासष्ठसिदान्तः । राज्यधं रोमके देशे तदा भवति सुव्रत । एवं भ्रमति च ण्डांशुर्दिनरात्रि विभावयन् ॥ ६ ॥ सूर्यस्यादर्शनं रात्रिर्दिनं तद्दर्शनात्मकम् । भूजत्तादुपरि च स्थितोऽर्को दर्शनं स्मृतम् ॥ ६१ ॥ भूगोलान्तःपुटे सप्त रस्याः पातालभूमयः । तत्र नागासुराः सिद्धा निवसन्ति द्विजोत्तम ॥ ६२॥ न भानुकरसंचारस्तत्रोद्योतस्तु जायते । नागानां मणितेजोभिर्दिव्यौषधिरसोदयः ॥ ६३ ॥ निरक्षविषये भानुः क्रान्त्यशैक्षिणोत्तरे। खखस्तिकानतस्तेन हीना नवतिरुन्नतः ॥ ६४ ॥ श्रथ साक्षेऽपमांशाक्षविश्लेषाद्युतितो रविः । नतो भवति शीर्षाच्च तदिग्भेदे समें क्रमात् ॥ ६५ ॥ परक्रान्तिमितेऽक्षांशे भुवः पञ्चदशे लवे । सौम्ययाम्यायनान्तेऽर्को देवासुरविभागयोः ॥ ६६ ॥ खस्तिकगतो ज्ञेयस्तन्मध्ये च रवेर्विभा। याम्योत्तरा खादपमांशमितेऽक्षे खमध्यगः ॥१७॥ सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम् । मानवा मुनयः सिद्धा मन्यन्ते च सुरासुराः ॥१८॥ सहाशीत्या शतं १८० व्योमभागानां यान्ति दृक्पथम् । सर्वेषामसुराणां मुराणां च तथा नृणाम् ॥६६॥
Aho ! Shrutgyanam