________________
६
ज्यौतिषसिद्धान्तसंग्रहे शतक्रतुश्च ज्वलनो यमो रक्षोऽम्बुपो मरुत् । शशीशश्चेति पतयः पूर्वादीनां दिशा क्रमात् ॥८॥ अथ श्रीविष्णुचरणाहिष्णुपादादको च्युता। विष्कम्भाचलतो मेरौ चतुर्धाऽस्मादहिजोत्तम ॥ ८१॥ भद्राश्ववर्षे शीताख्या चक्षुः स्यात् केतुमालके । मारतेऽलकनन्देयं कुरुवर्षे च भद्रिका ॥ २ ॥ ऐन्द्रं कसरुसंजं च ताम्बपगों गभस्तिमत् । कुमारिकाख्यं नागं च सौम्यं वारुणसंज्ञकम् ॥८३॥ गान्धर्वमिति खण्डानि नव जेयानि भारते। कुमारिकाखये खण्डेऽस्मिन् स्थिता वर्णव्यवस्थितिः॥८॥ माहेन्द्रशलिमलया ऋक्षकः परियात्रकः । सद्याचलो विन्ध्यगिरिरिह सप्तकुलाचलाः ॥ ८५॥ अथ सूर्योदयो यत्र तत्र पूर्वा दिगौरिता । अस्तं यात्यपरा तत्र तन्मत्स्यादखिला दिशः ॥ ८ ॥ तस्मात् सुरालयो मेकः सौम्यदिकस्थः सदा स्थितः । सर्वेषां याम्यभागस्था और्वे नरकदानवाः ॥८७॥ साक्षात् प्राची तु यत्र स्यादुदयो विषुवहिने । यत्रास्तं पश्चिमा सा तु तन्मत्येभ्योऽखिला दिशः ॥ यदा लङ्कापुरे भानोरुदयो भवति हिज । मध्यालो यमकोद्यां च सूर्यास्तं सिवपत्तने ८
Aho ! Shrutgyanam